This page has not been fully proofread.

आर्यासप्तशती ।
 
१८५
 
-
 
वक्षःस्थलेति । रतिविरतौ र तिश्रमे वा वक्षःस्थलपरिचयकारिणि मम वदनमुपधातुमु-

पधानीकर्ते नालभसे, न नम्रीकरोषि, न धारयसीति वा । तत्र हेतुमाह - पीनोच्चकुच-

भरदूरीभूतम् । एवं च वन्मौलौ वदनोपधानभवनाभावे न मन्मुखस्यापराधः,
किं तु

पीनोच्चत्वत्कुचयोरेवेति भावः । यद्वा मम मुखमुपधानीकर्तु मस्तकम् । ममेति भावः ।

नालभसे न स्पृशसि । स्प्रष्टुं न शक्नोषीत्यर्थः । न प्राप्नोषीति वा । तत्र हेतुः पीनोत्तुङ्गे-

त्यादि । अथवा मुखं स्वस्येति भावः । स्थापयितुं मम मौलिं न स्पृशसि । किंतु स्पृशेति

भावः । यतस्त्वदीयपीनोच्चकुचान्तरितम् । एवं च कराभ्यां मम मौलिमुन्नमय्य स्ववदनं

स्थापयेति भावः । एवं च चुम्बनौत्कण्ठ्यं स्वस्य च पीनोच्चकुचभारतया मौलेरुन्नमना-

सामर्थ्य द्योयते ॥
 

 
कश्चिद्दूतीं वक्ति–
 
-
 
वदनव्यापारान्तर्भावादनुरक्तमानयन्ती त्वम् ।
 

दूति सतीनाशार्थं तस्य भुजंगस्य दंष्ट्रासि ॥ १६२ ॥
 

 
वदनेति । हे दूति, वदनव्यापारेण वचनरचनया योऽन्तर्भावः परहृदयप्रवेशस्त-

स्मात्, अनुरक्तमनुरागवन्तम् । पक्षे मुखसंबन्धेन यदन्तःप्रवेशनं तस्मात्, अनु पश्चा-

द्रक्तं रुधिरम् । सतीसमुदायमानयन्ती त्वं तस्य खिड्गस्य सर्पस्य च दंष्ट्रासि । एवं च

वचनरचनया तया तथा हृदयं प्रविश्य पातिव्रत्यभङ्गं विधाय तेन खिङ्गेन सह कामिनीस-

मूहं योजयसीति भावः। वदनव्यापारपदेन द्रव्यव्ययाद्यभावो द्योत्यते । सार्थपदेन साम-

र्थ्यातिशयो व्यज्यते । दंष्ट्रापदेन त्वां विना सोऽकिंचित्कर इति ध्वन्यते ॥

 
इत्यनन्तपण्डितकृतगोवर्धन सप्तशतीव्यङ्गयार्थदीपनया समेता वकारव्रज्या ।
 

---------------------------------
 
शकारव्रज्या ।
 

 
कस्यचिन्नायकस्येतरनायकसाधारण्यमसहमाना
 
·
 
काचित्कांचिदन्योक्त्या वक्ति-
-
 
श्रीरपि भुजंगभोगे मोहनविज्ञेन शीलिता येन ।
 

सोऽपि हरिः पुरुषो यदि पुरुषा इतरेऽपि किं कुर्मः ॥ ५६३ ॥
 

 
श्रीरपीति । येन सुरतविज्ञेन श्रीरपि । अपिना यदर्थे जगदखिलं यत्नमाचरतीति

ध्वन्य ते । सर्पशरीरे शी लिता भुक्ता । भुजंगपदेन भयजनकत्वेऽपि तदभवनेनासक्त्यति-

शयो द्योयते । यदि स हरिरपि पुरुषः, इतरेऽपि पुरुषास्तदा किं कुर्मः । एवं चैतादृश-

स्यान्यैः सामान्यैः सह साम्यकरणमनुचितमिति व्यज्यते । यद्वान्योक्त्या कश्चित्कंचन

निन्दति । श्रीरपि लक्ष्मीस्वरूपापि येन खिङ्गेन संभोगविषये । मोहनविज्ञेनेति विपरीत-

लक्षणया सुरतानभिज्ञेन शीलिता कृता । इतरेऽपि यदि पुरुषाः सोऽपि हरिरिव हरिः प

शुतुल्यः पुरुषस्तदा किं कुर्मः । एवं चैतादृशस्य पुरुषेषु गणना न युक्तेति भावः ॥
 
Sri Gargeshwari Digital Foundation