This page has been fully proofread once and needs a second look.

काचित्कंचिदन्योक्त्या वक्ति--
 
वृतिभञ्जन गञ्जनसह निकाममुद्दाम दुर्नयाराम ।
परवाटीशतलम्पट दुष्टवृष स्मरसि गेहमपि ॥ ५७ ॥
 
वृतीति । आवरणभञ्जक, तिरस्कारसह, अत्यर्थं परमदुर्नयस्याराम । एवं च दुर्नयस्य
त्वमेव स्थानमिति भावः । परकीयोपवनशतलम्पट, दुष्टवृष, गेहमपि स्मरसि । अपिना
निजजनसंग्रहः । एवं च स्वनायिकाविस्मरणं तव नोचितमिति व्यज्यते ॥
 
महावंशजन्यत्वेऽप्यनेकगुणवत्त्वेऽपि खलस्य विश्वासो न विधेय इति कश्चित्कं-
चिद्वक्ति--
 
वंशावलम्बनं यद्यो विस्तारो गुणस्य यावनतिः ।
तज्जालस्य खलस्य च निजाङ्कसुप्तप्रणाशाय ॥ ५५८ ॥
 
वंशेति । यद्वंशस्यान्वयस्य, अथ च वेणोरवलम्बनं जन्यत्वमाश्रितत्वं च । गुणस्य
पाण्डित्य शौर्या देस्तन्तोश्च यो विस्तार आधिक्यं दैर्ध्यघ्यं च । या च नम्रता तत्खलस्य
जालस्य च निजाङ्कसुप्तनाशाय । विश्वस्तनाशायेत्यर्थः ॥
 
वर्षासमये प्रस्थातुमुद्यतं नायकं नायिकासखी वारयति--
 
विन्ध्यमहीधरशिखरे मुदिरश्रेणीकृपाणमयमनिलः ।
उद्यद्विद्युज्ज्योतिः पथिकवधायैव शातयति ॥ ५५९ ॥
 
विन्ध्येति । विन्ध्याचलसानौ मेघपलिङ्क्तिरूपकरवालं स्फुरच्चपलारूपस्फुलिङ्गोद्द्योतशाली
असौ समीरण: पान्थविघातायैव तीक्ष्णीकरोति । विन्ध्यमहीधरशिखर इत्यनेन स्फुट-
दर्शनयोग्यत्वम्, तेन च मद्वचसि न मिथ्यात्वमाशङ्कथक्यमिति द्योत्यते । मुदिरश्रेणीकृ
पाणमित्यनेनानिवारणीयत्वम्, तेन च स्वसदनावस्थानमेव शरणमित्यावेद्यते । अनिल
इत्यनेन सर्वत्र संचरणयोग्यत्वम्, तेन च प्रतीकारानर्हत्वं व्यज्यते । पथिकवधायैवेत्य-
नेन कार्यान्तराभावः, तेन च कथंचिदपि त्वया न गन्तव्यमित्यावेद्यते ॥
 
कश्चित्सखायं वक्ति--
 
व्यालम्बमानवेणीधुतधूलि प्रथममश्रुभिर्घोधौतम् ।
आयातस्य पदं मम गेहिन्या तदनु सलिलेन ॥ ५६० ॥
 
व्यालम्बेति । विशेषेणालम्बमाना या वेणी तया दूरीकृतधूलि । आयातस्य । परदे-
शादिति भावः । मम पदं गेहिन्या प्रथमतोऽश्रुभिः क्षालितं पश्चाज्जलेन । एवं च चि-
रप्रवासकरणान्मयि कोपमियं करिष्यतीति भीतिवतोऽपि ममानया चरणप्रणामादिना
साध्वसमपाकृतम् । एतादृशी सरलतरा मम प्रियतमेति ध्वन्यते ॥
 
विपरीतरतान्तविश्रान्तां नितान्तश्रान्तां कान्तां नायको वक्ति--
 
वक्षःस्थलसुप्ते मम मुखमुपधातुं न मौलिमालभसे ।
पीनोत्तुङ्गस्तनभरदूरीभूतं रतश्रान्तौ ॥ ६१ ॥