This page has not been fully proofread.

१८४
 
काव्यमाला ।
 
काचित्कंचिदन्योक्त्या वक्ति -
 
--
 
वृतिभञ्जन गञ्जनसह निकाममुद्दाम दुर्नयाराम ।

परवाटीशतलम्पट दुष्टवृष स्मरसि गेहमपि ॥ १५७ ॥
 

 
वृतीति । आवरणभञ्जक, तिरस्कारसह, अत्यर्थ परमदुर्नयस्याराम । एवं च दुर्नयस्य

त्वमेव स्थानमिति भावः । परकीयोपवनशतलम्पट, दुष्टवृष, गेहमपि स्मरसि । अपिना

निजजनसंग्रहः । एवं च स्वनायिकाविस्मरणं तव नोचितमिति व्यज्यते ॥
 

 
महावंशजन्यत्वेऽप्यनेकगुणवत्त्वेऽपि खलस्य विश्वासो न विधेय इति
 
कश्चित्कं-

चिद्वक्ति-
-
 
वंशावलम्बनं यद्यो विस्तारो गुणस्य यावनतिः ।
 

तज्जालस्य खलस्य च निजाङ्कसुप्तप्रणाशाय ॥ ५५८ ॥

 
वंशेति । यद्वंशस्यान्वयस्य, अथ च वेणोरवलम्बनं जन्यत्वमाश्रितत्वं च । गुणस्य

पाण्डित्य शौर्या देस्तन्तोश्च यो विस्तार आधिक्यं दैर्ध्य च । या च नम्रता तत्खलस्य

जालस्य च निजाङ्कसुप्तनाशाय । विश्वस्तनाशायेत्यर्थः ॥
 

 
वर्षासमये प्रस्थातुमुद्यतं नायकं नायिकासखी वारयति-
-
 
विन्ध्यमहीधरशिखरे मुदिरश्रेणीकृपाणमयमनिलः ।

उद्यद्विद्युज्ज्योतिः पथिकवधायैव शातयति ॥ ५५९ ॥

 
विन्ध्येति । विन्ध्याचलसानौ मेघपलिरूपकरवालं स्फुरच्चपलारूपस्फुलिङ्गोद्दयोतशाली

असौ समीरण: पान्थविघातायैव तीक्ष्णीकरोति । विन्ध्यमहीधरशिखर इत्यनेन स्फुट-

दर्शनयोग्यत्वम्, तेन च मद्वचसि न मिथ्यात्वमाशङ्कथमिति द्योत्यते । मुदिरश्रेणीकृ

पाणमित्यनेनानिवारणीयत्वम्, तेन च स्वसदनावस्थानमेव शरणमित्यावेद्यते । अनिल

इत्यनेन सर्वत्र संचरणयोग्यत्वम्, तेन च प्रतीकारानर्हत्वं व्यज्यते । पथिकवधायैवेल-

नेन कार्यान्तराभावः, तेन च कथंचिदपि त्वया न गन्तव्यमित्यावेद्यते ॥

 
कश्चित्सखायं वक्ति-
-
 
व्यालम्बमानवेणीधुतधूलि प्रथममश्रुभिर्घोतम् ।
 

आयातस्य पदं मम गेहिन्या तदनु सलिलेन ॥ ५६० ॥

 
व्यालम्बेति । विशेषेणालम्बमाना या वेणी तया दूरीकृतधूलि । आयातस्य । परदे-

शादिति भावः । मम पदं गेहिन्या प्रथमतोऽश्रुभिः क्षालितं पश्चाजलेन । एवं च चि-

रप्रवासकरणान्मयि कोपमियं करिष्यतीति भीतिवतोऽपि ममानया चरणप्रणामादिना

साध्वसमपाकृतम् । एतादृशी सरलतरा मम प्रियतमेति ध्वन्यते ॥
 

 
विपरीतरतान्तविश्रान्तां नितान्तश्रान्तां कान्तां नायको वक्ति-
-
 
वक्षःस्थलसुप्ते मम मुखमुपधातुं न मौलिमालभसे GDF

पीनोत्तुङ्गस्तनभरदूरीभूतं रतश्रान्तौ ॥ १६१ ॥
 
Sri Gurgeshwari Digital Foundation