This page has been fully proofread once and needs a second look.

क्षुद्रेण यत्कर्म कर्तव्यं तद्विगुणं न विधेयमिति कश्चित्कमप्युपदिशति--
 
वैगुण्येsपि हि महता विनिर्मितं भवति कर्म शोभायै ।
दुर्वहनितम्बमन्थरमपि हरति नितम्बिनीनृत्यम् ॥ १४ ॥
 
वैगुण्येऽपीति । महता श्रेष्ठेन संपादितं कर्म विगुणत्वेऽपि शोभायै भवति । अर्था-
न्तरन्यासमाह--दुर्वहः । महत्त्वादिति भावः । यो नितम्बस्तेन निश्चलमपि नितम्बि-
नीनृत्यं हरति । चित्तमिति भावः ॥
 
काचिदत्यन्तं सा पतिव्रतेति वादिनीं कांचिद्वक्ति--
 
वीक्ष्य सतीनां गणने रेखामेकां तया स्वनामाङ्काम् ।
सन्तु युवानो हसितुं स्वयमेवापारि नावरितुम् ॥ ५५५ ॥
 
वीक्ष्येति । साध्वीनां गणने स्वनामचिह्नरूपामेकां रेखां दृष्ट्वा युवानः । तदुपभोक्तार
इति भावः । हसितुं सन्तु । स्वयमेवावरितुं निरोद्धुम् । हास्यमिति भावः । नापारि ।
एवं च तदीयसतीगणनारेखां दृष्ट्वा युवभिर्हसितमिति किं वक्तव्यम्, तयैव कथमयं
लोको भ्रान्त इति हास्यं कृतमिति भावः । एवं चैतादृश्याः क्व सतीत्वमित्यावेद्यते ॥
 
इतः किमिति नापसरसीति वादिनीं कांचित्कश्चिद्वक्ति--
 
विन्ध्याचल इव देहस्तव विविधावर्तनर्मदनितम्बः ।
स्थगयति गतिं मुनेरपि संभावितरविरथस्तम्भः ॥ ५५६ ॥
 
विन्ध्येति । अत्र संबुद्धिपदानुपादानं लोकभीतिमावेदयति । विविधोऽनेकप्रकारक
आवर्त आवर्तनं चालनविशेषो यस्य स चासौ क्रीडाप्रदो नितम्बो यस्य । पक्षे विविधा
आवर्ता अम्भोभ्रमणानि यस्यां तादृशी नर्मदा नदी यस्मिंस्तादृशकटकवान् । अत एव
संभावितः सूर्यरथस्य स्तम्भो येन । स्वैकदेशनितम्बेन तच्चक्रविनिर्जयादिति भावः । यद्वा
संभावितो रविरथस्य लक्षणया तच्चक्रस्य स्तम्भो येन । ततोऽप्यधिकपरिमाणशालिनि-
तम्बवत्त्वादिति भावः । पक्षे रविरथस्य स्तम्भो गतिविच्छेदः । अत्युच्चत्वादिति भावः ।
तव देहो विन्ध्याद्रिरिव मुनेरपि मननशीलस्यापि । पक्षेऽगस्त्यस्य । गतिं श्लथयति ।
एवं च मननशीलस्यापि तवैतादृशदेहमवलोक्य गतिनिरोधो जायते, किं पुनर्मादृशस्य
रसलम्पटस्येति भावः । यद्वा विपरीतरतनिर्जितो नायको नायिकां वक्ति - --विविधा -
वर्तोऽनेकप्रकारकभवनम् । चलनविशेषादिति भावः । तेन क्रीडाप्रदो नितम्बो यस्य ।
संभावितो रविरथस्य स्तम्भः । पराभव इत्यर्थः । ततोऽप्यधिकतरगतिमन्नितम्बवत्त्वा-
दिति भावः । पक्षे प्राग्वत् । मुनेरपि 'वानरं चपलं ध्यायेत्' इत्यादिकामतन्त्रोक्तचि-
न्तनवतोऽपि गतिं सामर्थ्यं स्थगयति । एवं च त्वदासत्क्तचित्तस्य मम पराजयस्तव
सुकर इति ध्वन्यते ॥