This page has not been fully proofread.

१८२
 
काव्यमाला ।
 
कश्चित्कंचिद्वक्ति-
-
 
वैभवभाजां दूषणमपि भूषणपक्ष एव निःक्षिप्तम् ।

गुणमात्मनामधर्मं द्वेषं च गृणन्ति काणादाः ॥ ५५० ॥
 

 
वैभवेति । दूषणमपि । अपिना हेयत्वमावेद्यते । भाग्यशालिनाम् । पक्षे वैभवं व्या-

पकत्वम् । भूषणपक्ष एव । एवकारेण दूषणपक्षव्यवच्छेदः । निःक्षिप्तम् । स्थापितमि-

त्यर्थः । उक्तमर्थमर्थान्तरन्यासेन द्रढयति–काणादा वैशेषिकशास्त्रप्रवर्तका अधर्म द्वेषं

चात्मनां गुणं गृणन्ति । चतुर्विंशतिगुणेष्वेतयोर्गणनादिति भावः । एवं चाधर्मद्वेषयो-

र्दूषणपक्ष निःक्षेपयोग्यत्वेऽप्यात्मनि विद्यमानतया गुणत्वं मुनिभिरभिहितं तत्र का वा-

र्तान्येषामिति भावः । एवं च दरिद्रस्यैव दोषं दोषत्वेन गणयन्ति सर्व इति दारिद्र्यम-

सम्यगिति व्यज्यते ॥
 

 
वक्राः कपटस्निग्धा मलिनाः कर्णान्तिके प्रसज्जन्तः ।
 

कं वञ्चयन्ति न सखे खलाश्च गणिकाकटाक्षाश्च ॥ ५५१ ॥

 
वक्रेति । वक्राः कुटिलाः । कापट्येन स्नेहवन्तः । मलिनाः । पापकारित्वात्साहजि-

कश्यामताशालिवादित्युभयत्रेति भावः । कर्णान्तिके प्रसजन्तः । परापकारार्थ विशा-

लत्वादित्युभयत्र भावः । हे सखे, खला वेश्याकटाक्षाच कं न वश्चयन्ति । अपि तु

सर्वमेव । एवं चोभयसंसर्गस्तव नोचित इति व्यज्यते ॥

 
पाकोद्यमशालिनीं नायिकां रतार्थी नायको वक्ति-
-
 
विद्युज्वालावलयितजलवरपिठरोदराद्विनिर्यान्ति
 

 

विशदौदनद्युतिमुषः प्रेयसि पयसा समं करकाः ॥ १५२ ॥
 

 
विद्युदिति । हे प्रेयसि, विद्युज्ज्वालाभिर्व्याप्तं यन्मेघरूपपात्रम्, अथ च जलाधरभूतं

यत्पिठरं तन्मध्यात्स्वच्छौदनकान्तिहारकाः करकाः पयसा जलेन । पक्षे दुग्धेन । सह

विनिर्यान्ति । एवं चैतादृशकाले क्षुत्क्षामस्य दुग्धौदनभोजनदानवन्मम सुरतदानं जीव-

ननिदान मित्यवगत्येतरव्यास परिहाय मत्सविध एहीति ध्वन्यते । यद्वा वर्षोपलसहितै-

तादृशत्रुष्टौ कथं मया संकेते समागन्तव्यमिति वादिनीं काचिद्वक्ति–विद्युदिति । एवं

चैतादृशकालीनसुरतं दुग्धौदनभोजनादपि मधुरमित्यवगत्य संकेतं प्रयाहीति ध्वन्यते ॥

 
अत्यन्तरतोत्कण्ठाशाली नायको नायिकां वक्ति-
-
 
व्यजनादिभिरुपचारैः किं मरुपथिकस्य गृहिणि विहितैमे॑ ।

तापस्त्वदूरुकदलीद्वयमध्ये शान्तिमयमेति ॥ ५५३ ॥

 
व्यजनेति । हे गृहिणि। एवं च सेवासंपादनौचित्यमावेद्यते । मरुपथिकस्य मे संपादि-

तैर्व्यजनप्रभृतिभिरुपचारैः किम् । न किमपीत्यर्थः । एवं च मरुदेशादागतस्य भूयसी सं-

तापवत्तेति भावः । किं तर्हि विधेयमियत आह-लदूरुरूपकदलीद्वयान्तरालेऽयं मदे-

कवेद्यस्तापः शान्तिमेति । एवं चान्यव्यासङ्गं विहाय रहसि सत्वरं प्रचलेति ध्वन्यते ॥
 
SH Gurgeshwari Digital Fundation