This page has not been fully proofread.

आर्यासप्तशती ।
 
अथ कवीन्स्तौति-

 
विहितघनालंकारं विचित्रवर्णावलीमयस्फुरणम् ।

शक्रायुधमिव वक्रं वल्मीकभुवं कविं नौमि ॥ ३० ॥
 

 
विहितेति । शक्रायुधमिव । विहिता घना बहवोऽलंकारा उपमादयो येन तम् । पक्षे

विहितमेघालंकरणम् । विचित्राणां वर्णानामक्षराणां यावली तत्प्रचुरं स्फुरणं स्फूर्ति-

र्यस्य तम् । पक्षे वर्णा नीलपीतादयस्तत्पतिङ्क्तिर्विकारः स्फुरणमुत्पत्तिर्यस्य तम् । वक्रं

वक्रोक्तिकुशलम् । पक्षे यथाश्रुतम् । वल्मीकभुवं वाल्मीकिम् । शक्रधनुषोऽपि तत

एवोत्पत्तिरिति लौकिकम् । कविविं काव्यकर्तारं नौमि । रूपकमत्रालंकारः ॥
 

 
व्यासगिरां निर्यासं सारं विश्वस्य भारतं वन्दे ।
 

भूषणतयैव संज्ञां यदङ्कितां भारती वहति ॥ ३१ ॥
 
११
 

 
व्यासेति । व्यासवचसां निर्यासम् । एवं च तत्त्वार्थवत्त्वं सरसत्वं च व्यज्यते । वि-

श्वस्य जगतः सारम् । एवं चेत् उत्पन्नपुरुषार्थसाधनत्वं धन्यते । एतादृशं भारतं

वन्दे । यदङ्कितां भारतचिह्नितां संज्ञां भूषणतयैव भारती सरस्वती वहति । एवं च

भारत्या भूषणरूपतन्नामप्रसिद्धनामवत्त्वप्रतिपादनेन सर्वग्रन्थाधिकत्वमावेद्यते भारते ।

एवकारेण स्वाभाविकत्वव्युदासः । अन्योऽप्यप्रसिद्धः प्रसिद्धस्य कस्यचिन्नाम्ना प्रसिद्धो

भवतीति लौकिकम् । भारतकर्तृत्वेन व्यासस्तुतिरित्यवधेयम् ॥
 

 
सति काकुत्स्थकुलोन्नतिकारिणि रामायणे किमन्येन ।

रोहति कुल्या गङ्गापूरे किं बहुरसे वहति ॥ ३२

सतीति । काकुत्स्थानां कुलम् । तदुन्नतिकारिणि । कुलपदेन सर्वेषामप्युन्नतिसंपाद-

नेन शतकोटिप्रविस्तरत्वं तेन च बहुतरप्रमेयवत्त्वं च व्यज्यते । बहुरसे प्रभूत शृङ्गारादि-

रसशालिनि । पक्षे बहुजलवति । एवं च तापापनोदकत्वं व्यज्यते । अत एवैतादृश-

रामायणे सत्यन्यकाव्येन किम् । तेन गतार्थत्वादिति भावः । अत्र दृष्टान्तमाह - -गङ्गापूरे

वहति सति कुल्याल्पा कृत्रिमा सरिटिंक रोहति । काक्कावा नेत्यर्थः । न चित्तपथमवतरतीति
 

भावः ॥
 

 
अतिदीर्घजीविदोषाद्व्यासेन यशोऽपहारितं हन्त ।
 

कैर्नोच्येत गुणाढ्यः स एव जन्मान्तरापन्नः ॥ ३३ ॥
 

 
अतीति । अत्यन्तदीर्घजीवित्वदोषात् । चिरकालजीवित्वरूपदोषादित्यर्थः । अति-

चिरजीवित्वस्यान्यत्र गुणत्वेऽप्यत्र दोषत्वमिति भावः । दोषपदं परिहरणीयत्वं व्यञ्ज-

यति । व्यासेन यशः । हन्त इति खेदे । अपहारितम् । यशःपदमत्यन्तसंरक्षणीयत्वं

व्यञ्जयति । अत एव खेदौचित्यम् । एतदेवाह- -स एव व्यास एव जन्मान्तरमापन्नो गु-

णाढ्यो बृहत्कथाकर्ता कैर्नोच्येत । अपि तु सर्वैरित्यर्थः । एवं गुणाढ्यव्यवहारे व्यासस्य
Sri Gurgeshwari Diginal Foundation