This page has not been fully proofread.

आर्यासप्तशती ।
 
अथ कवीन्स्तौति-
विहितघनालंकारं विचित्रवर्णावलीमयस्फुरणम् ।
शक्रायुधमिव वक्रं वल्मीकभुवं कविं नौमि ॥ ३० ॥
 
विहितेति । शक्रायुधमिव । विहिता घना बहवोऽलंकारा उपमादयो येन तम् । पक्षे
विहितमेघालंकरणम् । विचित्राणां वर्णानामक्षराणां यावली तत्प्रचुरं स्फुरणं स्फूर्ति-
र्यस्य तम् । पक्षे वर्णा नीलपीतादयस्तत्पतिविकारः स्फुरणमुत्पत्तिर्यस्य तम् । वक्रं
वक्रोक्तिकुशलम् । पक्षे यथाश्रुतम् । वल्मीकभुवं वाल्मीकिम् । शक्रधनुषोऽपि तत
एवोत्पत्तिरिति लौकिकम् । कवि काव्यकर्तारं नौमि । रूपकमत्रालंकारः ॥
 
व्यासगिरां निर्यासं सारं विश्वस्य भारतं वन्दे ।
 
भूषणतयैव संज्ञां यदङ्कितां भारती वहति ॥ ३१ ॥
 
११
 
व्यासेति । व्यासवचसां निर्यासम् । एवं च तत्त्वार्थवत्वं सरसत्वं च व्यज्यते । वि-
श्वस्य जगतः सारम् । एवं चेत उत्पन्नपुरुषार्थसाधनत्वं धन्यते । एतादृशं भारतं
वन्दे । यदङ्कितां भारतचिह्नितां संज्ञां भूषणतयैव भारती सरस्वती वहति । एवं च
भारत्या भूषणरूपतन्नामप्रसिद्धनामवत्त्वप्रतिपादनेन सर्वग्रन्थाधिकत्वमावेद्यते भारते ।
एवकारेण स्वाभाविकत्वव्युदासः । अन्योऽप्यप्रसिद्धः प्रसिद्धस्य कस्यचिन्नाम्ना प्रसिद्धो
भवतीति लौकिकम् । भारतकर्तृत्वेन व्यासस्तुतिरित्यवधेयम् ॥
 
सति काकुत्स्थकुलोन्नतिकारिणि रामायणे किमन्येन ।
रोहति कुल्या गङ्गापूरे किं बहुरसे वहति ॥ ३२
सतीति । काकुत्स्थानां कुलम् । तदुन्नतिकारिणि । कुलपदेन सर्वेषामप्युन्नतिसंपाद-
नेन शतकोटिप्रविस्तरत्वं तेन च बहुतरप्रमेयवत्त्वं च व्यज्यते । बहुरसे प्रभूत शृङ्गारादि-
रसशालिनि । पक्षे बहुजलवति । एवं च तापापनोदकत्वं व्यज्यते । अत एवैतादृश-
रामायणे सत्यन्यकाव्येन किम् । तेन गतार्थत्वादिति भावः । अत्र दृष्टान्तमाह - गङ्गापूरे
वहति सति कुल्याल्पा कृत्रिमा सरिटिंक रोहति । काक्का नेत्यर्थः । न चित्तपथमवतरतीति
 
भावः ॥
 
अतिदीर्घजीविदोषाद्वयासेन यशोऽपहारितं हन्त ।
 
कैर्नोच्येत गुणाढ्यः स एव जन्मान्तरापन्नः ॥ ३३ ॥
 
अतीति । अत्यन्तदीर्घजीवित्वदोषात् । चिरकालजीवित्वरूपदोषादित्यर्थः । अति-
चिरजीवित्वस्यान्यत्र गुणत्वेऽप्यत्र दोषत्वमिति भावः । दोषपदं परिहरणीयत्वं व्यञ्ज-
यति । व्यासेन यशः । हन्त इति खेदे । अपहारितम् । यशःपदमत्यन्तसंरक्षणीयत्वं
व्यञ्जयति । अत एव खेदौचित्यम् । एतदेवाह- स एव व्यास एव जन्मान्तरमापन्नो गु-
णाढ्यो बृहत्कथाकर्ता कैर्नोच्येत । अपि तु सर्वैरित्यर्थः । एवं गुणाढ्यव्यवहारे व्यासस्य
Sri Gurgeshwari Diginal Foundation