This page has been fully proofread once and needs a second look.

विपणीति । हे निरूपणे निपुण । एवं चैतस्यान्यैः समताकरणे तवैवानुचित मिति
च्व्यज्यते । रथ्यातुलासामान्ये एनं मा गणय । असौ धर्मधटो लघुमधरीकरोति गुरुमु-
परि नयति । क्वचित् 'एनां दिव्यतुला सा' इति पाठः । तत्र नायिकापक्षे योज्यम् ॥
 
सतां मनसः सकाशान्न किंचिन्महत्तरमिति कश्चिद्वक्ति--
 
वासरगम्यमनूरोरम्बरमवनी च वामनैकपदम् ।
जलधिरपि पोतलङ्घ्यः सतां मनः केन तुलयामः ॥ ४६ ॥
 
वासरेति । ऊरुरहितस्य । अरुणस्येत्यर्थः । अम्बरं दिवसोल्लङ्घ्यम् । वसुधा च वा-
मनस्यैकपदम् । एकपदेनोल्लङ्घ्येत्यर्थः । समुद्रोऽपि पोतेन लङ्घ्यः । सतां मनः केन तुल-
यामः । एवं च महत्तरतयाभिमतस्याकाशस्याल्पसमयेन चरणहीनोल्लङ्घनीयतया, तथा
वसुधाया अपि ह्रस्वपदलङ्घनीयतया, तथा जलधेरपि पोत इव पोत इत्युपमितेन स्वल्पेना-
प्युल्लङ्घनीयतया, एतन्त्त्रयातिरिक्तवस्तुनोऽभावात् सतां मनो निरुपममित्यर्थः ॥
 
दूती नायिकां वक्ति--
 
वितततमोमषिलेखालक्ष्मोत्सङ्गस्फुटाः कुरङ्गाक्षि ।
त्त्राक्षरनिकरा इव तारा नभसि प्रकाशन्ते ॥ ४७ ॥
 
विततेति । हे कुरङ्गनेत्रे, विततं यत्तमस्तद्रूपा या मषी तस्या या रेखास्तद्रूपचिह्नव-
दुत्सङ्गो यस्य तादृशा ये तारा: पत्त्ररूपाक्षरसमूहा इव प्रकाशन्ते । एवं च त्वद्विरहखि-
नस्य नायकस्य त्वद्विज्ञापनापत्त्रमिवेदमाकाशमालोक्य त्वया त्वरया प्रस्थेयमिति व्यज्यते ।
यद्वा मदन देवस्येदं चन्द्रमुद्रामुद्रितं शासनपत्त्रं यन्मानवतीनां निःशङ्कं भवद्भिर्दुःखं देय-
मिति शारदादिनिजजनस्येत्यवगत्य मानमपहाय नायकमनुरञ्जयेति सखीवाक्यमेतत् ॥
 
विविधाङ्गभङ्गिषु गुरुर्नूतनशिष्यां मनोभवाचार्यः ।
वेत्रलतयेव बालां तल्पे नर्तयति रतरीत्या ॥ ५४८ ॥
 
विविधेति। अनेकाङ्गभङ्गिषु गुरुर्मनोभवरूपाचार्यो नवीनान्तेवासिरूपां बालां वेत्रल-
तयेव रतरीत्या तल्पे नर्तयति । एवं चेयमग्रेऽत्यन्तरतकला प्रवीणा भविष्यतीति भावः ॥
 
नायको नायिकां वक्ति--
 
विपरीतमपि रतं ते स्रोतो नद्या इवानुकूलमिदम् ।
तटतरुमिव मम हृदयं समूलमपि वेगतो हरति ॥ ५४९ ॥
 
विपरीत मिति । हे सुतनु, अनुकूलमिच्छाविषयीभूतम् । पक्षे कूलं रोधः । इदं ते
विपरीतमपि रतम् । अपिना विपरीतरतेतररतसंग्रहः । यद्वापिरवधारणार्थकः । नद्या
इव स्रोतो मम हृदयं तटतरुमिव वेगतः । वेगविशेषादित्यर्थः । आमूलं हरति । एवं च
रतसामान्यस्याधिक्येऽपि विपरीतरतस्याधिक्यमित्यावेद्यते ॥