This page has not been fully proofread.

आर्यासप्तशती ।
 
१८१
 
विपणीति । हे निरूपणे निपुण । एवं चैतस्यान्यैः समताकरणे तवैवानुचित मिति

च्यज्यते । रथ्यातुलासामान्ये एनं मा गणय । असौ धर्मधटो लघुमधरीकरोति गुरुमु-

परि नयति । क्वचित् 'एनां दिव्यतुला सा' इति पाठः । तत्र नायिकापक्षे योज्यम् ॥

 
सतां मनसः सकाशान्न किंचिन्महत्तरमिति कश्चिद्वक्ति
 
--
 
वासरगम्यमनूरोरम्बरमवनी च वामनैकपदम् ।
 

जलधिरपि पोतलमयः सतां मनः केन तुलयामः ॥ ९४६ ॥
 

 
वासरेति । ऊरुरहितस्य । अरुणस्येत्यर्थः । अम्बरं दिवसोल्लङ्घयम् । वसुधा च वा-

मनस्यैकपदम् । एकपदेनोल्लवयेत्यर्थः । समुद्रोऽपि पोतेन लङ्घयः । सतां मनः केन तुल-

यामः । एवं च महत्तरतयाभिमतस्याकाशस्याल्पसमयेन चरणहीनोल्लङ्घनीयतया, तथा

वसुधाया अपि ह्रस्वपदलङ्घनीयतया, तथा जलधेरपिपोत इव पोत इत्युपमितेन स्वल्पेना-

प्युल्लङ्घनीयतया, एतन्त्रयातिरिक्तवस्तुनोऽभावात्सतां मनो निरुपममित्यर्थः ॥

 
दूती नायिकां वक्ति-
-
 
वितततमोमषिलेखालक्ष्मोत्सङ्गस्फुटाः कुरङ्गाक्षि ।
 

पत्राक्षरनिकरा इव तारा नभसि प्रकाशन्ते ॥ १४७ ॥
 

 
विततेति । हे कुरङ्गनेत्रे, विततं यत्तमस्तद्रूपा या मषी तस्या या रेखास्तद्रूपचिह्नव-

दुत्सङ्गो यस्य तादृशा ये तारा: पत्ररूपाक्षरसमूहा इव प्रकाशन्ते । एवं च त्वद्विरहखि-

नस्य नायकस्य त्वद्विज्ञापनापत्रमिवेदमाकाशमालोक्य त्वया तरया प्रस्थेयमिति व्यज्यते ।

यद्वा मदन देवस्येदं चन्द्रमुद्रामुद्रितं शासनपत्रं यन्मानवतीनां निःशङ्कं भवद्भिर्दुःखं देय-

मिति शारदादिनिजजनस्येत्यवगत्य मानमपहाय नायकमनुरञ्जयेति सखीवाक्यमेतत् ॥
 

 
विविधाङ्गभङ्गिषु गुरुर्नूतनशिष्यां मनोभवाचार्यः ।
 

वेत्रलतयेव बालां तल्पे नर्तयति रतरीत्या ॥ ५४८ ॥
 

 
विविधेति। अनेकाङ्गभङ्गषु गुरुर्मनोभवरूपाचार्यो नवीनान्तेवासिरूपां बालां वेत्रल-

तयेव रतरीत्या तल्पे नर्तयति । एवं चेयमग्रेऽत्यन्तरतकला प्रवीणा भविष्यतीति भावः ॥

 
नायको नायिकां वक्ति-
-
 
विपरीतमपि रतं ते स्रोतो नद्या इवानुकूलमिदम् ।
 

तटतरुमिव मम हृदयं समूलमपि वेगतो हरति ॥ ५४९ ॥

 
विपरीत मिति । हे सुतनु, अनुकूलमिच्छाविषयीभूतम् । पक्षे कूलं रोधः । इदं ते

विपरीतमपि रतम् । अपिना विपरीतरतेतररतसंग्रहः । यद्वापिरवधारणार्थकः । नद्या

इव स्रोतो मम हृदयं तटतरुमिव वेगतः । वेगविशेषादित्यर्थः । आमूलं हरति । एवं च

रतसामान्यस्याधिक्येऽपि विपरीतरतस्याधिक्यमित्यावेद्यते ॥
 
Sri Gargeshwari Digital Foundation