This page has been fully proofread once and needs a second look.

णदा । नायिकेत्यर्थः । वेद । कर्तुमिति भावः । एवं च यदि प्रसन्ना नायिका तदा सै
प्रहरचतुष्टयसंबन्धि रतसुखं करोति, सैव चाप्रसन्ना प्रहरचतुष्टयसंबन्धि विरहदुःखं करो-
तीति भावः । अत एव क्षणमुत्सवं ददाति द्यति चेति व्युत्पत्तिरपि संगच्छते । अथ च
प्रहरचतुष्टय संबन्धि सङ्गसुखस्य तथाविधविरहं रात्रिरेव वेद । रात्रीयप्रहरचतुष्टयसंब-
न्धिविरहवेदनायाश्च कर्त्री सैवेत्यर्थः । दिवसीयविरहस्यापि रात्रावेवातिदुःखदत्वादिति
भावः । चरणानां संकोचं प्रसारमपि यथा कूर्मी विजानाति, एवं च यथा चरणसंको-
चप्रसरणसंपादनं कूर्म्यधीनं तथा संगमविरहसंपादनं नायिकाधीन मिति भावः । एवं च
न ममापराध इति ध्वन्यते । यद्वा विरहिणी सखीं वक्ति- हे सखि, चतुर्णाणां प्रहराणां
संगमं वियोगं च क्षणदा रात्रिर्वेद । चन्द्राद्युद्दीपनादिप्राबल्याद्युन्मादाद्यवस्थया नायकस-
मागमासमागमाभ्यां मत्सुखदुःखसाक्षिणी रात्रिरेवेति भावः । एवं च तादृश्यापि संख्या
मत्सुखदुःखविचारणा न क्रियत इति सख्युपालम्भो व्यज्यते । अथवा चतुर्णाणां प्रहराणां
क्षणदा । समग्रा रात्रिरिति यावत् । सुखदुःखे वेद । मदीये इति भावः । एवं च क्षण-
मपि न रात्रौ विश्रान्तिर्वृत्तेति भावः । यद्वा सामान्यवनितां तदीयधात्री वक्ति--कूर्मी
क्षणदा चतुर्णीणां प्रहराणां सङ्गं वियोगं च वेद । त्वं किमिति न वेत्सि । एवं च त्वयापि
केऽप्यानेयाः केऽपि विनिःसारणीया इति भावः । अथवा सखी नायिकामुपदिशति - --या
ह्युत्सवदा कामिनी सा स्वदर्शनादिदानेन दिवसीय प्रहरचतुष्टयविरहसंपादनेनोत्कण्ठितं
नायकं विधाय रात्रौ प्रहरचतुष्टयमपि रमयतीति भावः ॥
 
नायिकासखी नायकं वक्ति--
 
वृतिविवरेण विशन्ती सुभग त्वामीक्षितुं सखी दृष्टिः ।
हरति युवहृदयपञ्जरमध्यस्था मन्मथेषुरिव ॥ ५४४ ॥
 
वृतीति । हे सुभग । एतादृशनायिकानुरागशालित्वादिति भावः । भित्तिसुषिरेण
त्वामवलोकयितुं विशन्ती यूनां हृदयरूपो यः पञ्जरो वंशकरण्डिका तन्मध्यस्था । एवं च
धारानुपघातो ध्वन्यते । मन्मथेषुरिव सख्याः । ममेति भावः । दृष्टिर्हरति । अर्थात् त्वा-
मेव । एवं च पूर्वं त्वद्गुणश्रवणादिना त्वय्यासक्ता, इदानींतनत्वद्विषयकविलोकनेन मन्म-
थवशान्न किंचिदपि मम सखी जानातीति त्वय्यत्यन्तमासक्तेयमिति ध्वन्यते । यद्वा युवह •हृ-
दयपञ्जरमध्यस्थेति दृष्टिविशेषणम् । पञ्जरपदेन निःसारणानर्हत्वं ध्वन्यते । एवं च त्वा-
मवलोकयितुं प्रवृत्ताया मत्सख्या उदासीनवस्तुतुल्यतया नयनविषयीभूता अन्ये युवा-
नस्तस्याः कटाक्षैकतानतापन्नास्तामेव भावयन्तीति भावः । एवं च सर्वयुवस्पृहणीया
या त्वामेव स्पृहयतीति सा त्वयावश्यमनुग्राह्येति ध्वन्यते ॥
 
याथातथ्यज्ञानवानयमेवेति कश्चित्कंचिदन्योक्त्या वक्ति--
 
विपणितुलासामान्ये मा गणयैनं निरूपणे निपुण ।
धर्मधटोऽसावधरीकरोति लघुमुपरि नयति गुरुम् ॥ ४५ ॥