This page has been fully proofread once and needs a second look.

संपादितः । गौराद्ङ्ग्येति हरिद्राविशेषणमपि । स रागः सहसा । अप्रतर्क्मिति यावत् ।
पतता प्रविष्टेन । पक्षे संबन्धवता । जलेनेव पिशुनेन सूचकेन दूरीकृतः । एवं च न
तस्या अपराध इति भावः ॥
 
एतादृशनायिकासाहचर्ये तव सर्वत्र कामुककृतपीडा स्यादिति कश्चित्कंचिदन्योक्त्या
वक्ति--
 
विष्वग्विका सिसौरभरागान्धव्याबानीयस्य ।
क्वचिदपि कुरङ्ग भवतो नाभीमादाय न स्थानम् ॥ ५४० ॥
 
विष्वगिति । हे कुरङ्ग, सर्वतो विसारिसौगन्ध्येन योऽभिलाषस्तेनान्धा ये व्याधास्तैः
पीडनीयस्य । विश्वगित्यादिना गोपनमशक्यमित्यावेद्यते । रागान्धपदेन कर्तव्याकर्त-
व्यविवेकवैधुर्यमावेद्यते । व्याधपदेन हिंस्रलंत्वं द्योत्यते । भवतो नाभीमादाय क्वापि स्थलं
नास्ति । एवं चैतस्याः समस्तगुणैर्विख्यातायास्तव गोपनाशक्यतया सर्वतः पीडा स्यात्,
अत एतत्सङ्गस्त्याज्य इति ध्वन्यते ॥
 
एकजातसजातीयगुणवत्त्वेऽपि क्वचित्कश्चिदस्ति विशेष इति कंचिदन्योक्त्या वक्ति--
 
वटकुटजशालशाल्मलिरसालबहुवारसिन्धुवाराणाम् ।
अस्ति भिदा मलयाचलसंभवसौरभ्यसाम्येऽपि ॥ ४१ ॥
 
वटेति । वटादिसिन्धुवारान्तवृक्षाणां मलयाद्रिजन्य सौगन्ध्यसाजात्येऽपि भेदोऽस्ति ।
एवं च चतुरैरेव तद्वैजात्यं ज्ञातुं शक्यं नान्यैरिति भावः ॥
 
सामान्यवनितां काचिदन्योक्त्या समुपहसति--
 
विनिहितकपर्दकोटिं चापलदोषेण शंकरं त्यक्त्वा ।
वटमेकमनुसरन्ती जाह्नवि लुठसि प्रयागतटे ॥ ४२ ॥
 
विनिहितेति । विनिहिता समर्पिता कपर्दस्य जटाजूटस्य कोटि: प्रान्तभागो येन
तम् । पक्षे कोटिसंख्याककपर्ददातारम् । शंकरं शिवम् । पक्षे सुखसंपादकम् । चाश्ञ्च-
ल्यदोषेण त्यक्त्वा । दोषपदमनौचितीं व्यनक्ति । हे जाह्नवि जह्नुतनये । एवं चैतादृ-
शाचरणमनुचितं तवेति ध्वन्यते । एकं वटवृक्षम् । पक्षे वराटकम् । अपेक्षमाणा प्रया-
गतटे । पक्षे मध्यमपदलोपिसमासात् प्रलुप्तयागस्य पापीयसः समीप इत्यर्थः । लुठसि ।
एवं च चाञ्चल्यकरणमनुचितं तवेति भावः ॥
 
'किमिति विरहदुःखं त्वया मत्सख्या दत्तम्' इति वादिनीं नायिकासखीं नायको
वक्ति--
 
वेद चतुर्णीणां क्षणदा प्रहराणां संगमं वियोगं च ।
चरणानामिव कूर्मी संकोचमपि प्रसारमपि ॥ ४३ ॥
 
वेदेति । चतुःप्रहरसंबन्धिसंयोगं चतुःप्रहरसंबन्धिवियोगं च क्षणदा । क्षणदेव क्ष-