This page has not been fully proofread.

आर्यासप्तशती ।
 
१७९
 
संपादितः । गौराद्ङ्गयेति हरिद्राविशेषणमपि । स रागः सहसा । अप्रतर्क्समिति यावत् ।

पतता प्रविष्टेन । पक्षे संबन्धवता । जलेनेव पिशुनेन सूचकेन दूरीकृतः । एवं च न

तस्या अपराध इति भावः ॥
 
me
 

 
एतादृशनायिकासाहचर्ये तव सर्वत्र कामुककृतपीडा स्यादिति कश्चित्कंचिदन्योक्त्या
 

वक्ति-
-
 
विष्वग्विका सिसौरभरागान्धव्याघबाघनीयस्य ।
 

क्वचिदपि कुरङ्ग भवतो नाभीमादाय न स्थानम् ॥ ५४० ॥
 

 
विष्वगिति । हे कुरङ्ग, सर्वतो विसारिसौगन्ध्येन योऽभिलाषस्तेनान्धा ये व्याधास्तैः

पीडनीयस्य । विश्वगित्यादिना गोपनमशक्यमित्यावेद्यते । रागान्धपदेन कर्तव्याकर्त-

व्यविवेकवैधुर्यमावेद्यते । व्याधपदेन हिंस्रलं द्योत्यते । भवतो नाभीमादाय क्वापि स्थलं

नास्ति । एवं चैतस्याः समस्तगुणैर्विख्यातायास्तव गोपनाशक्यतया सर्वतः पीडा स्यात्,

अत एतत्सङ्गस्त्याज्य इति ध्वन्यते ॥
 

 
एकजातसजातीयगुणवत्त्वेऽपि क्वचित्कश्चिदस्ति विशेष इति कंचिदन्योक्त्या वक्ति -
-
 
वटकुटजशालशाल्मलिरसालबहुवारसिन्धुवाराणाम् ।
 

अस्ति भिदा मलयाचलसंभवसौरभ्यसाम्येऽपि ॥ १४१ ॥

 
वटेति । वटादिसिन्धुवारान्तवृक्षाणां मलयाद्रिजन्य सौगन्ध्यसाजात्येऽपि भेदोऽस्ति ।

एवं च चतुरैरेव तद्वैजात्यं ज्ञातुं शक्यं नान्यैरिति भावः ॥
 

 
सामान्यवनितां काचिदन्योक्त्या समुपहसति-
-
 
विनिहितकपर्दकोटिं चापलदोषेण शंकरं त्यक्त्वा ।
 

वटमेकमनुसरन्ती जाह्नवि लुठसि प्रयागतटे ॥ १४२ ॥

 
विनिहितेति । विनिहिता समर्पिता कपर्दस्य जटाजूटस्य कोटि: प्रान्तभागो येन

तम् । पक्षे कोटिसंख्याककपर्ददातारम् । शंकरं शिवम् । पक्षे सुखसंपादकम् । चाश्च-

ल्यदोषेण त्यक्त्वा । दोषपदमनौचित व्यनक्ति । हे जाहवि जह्नुतनये । एवं चैतादृ-

शाचरणमनुचितं तवेति ध्वन्यते । एकं वटवृक्षम् । पक्षे वराटकम् । अपेक्षमाणा प्रया-

गतटे । पक्षे मध्यमपदलोपिसमासात्प्रलुप्तयागस्य पापीयसः समीप इत्यर्थः । लुठसि ।

एवं च चाञ्चल्यकरणमनुचितं तवेति भावः ॥
 

 
'किमिति विरहदुःखं त्वया मत्सख्या दत्तम्' इति वादिनीं नायिकासखीं नायको

वक्ति-
-
 
वेद चतुर्णी क्षणदा प्रहराणां संगमं वियोगं च ।
 

चरणानामिव कूर्मी संकोचमपि प्रसारमपि ॥ १४३ ॥

 
वेदेति । चतुःप्रहरसंबन्धिसंयोगं चतुःप्रहरसंबन्धिवियोगं च क्षणदा । क्षणदेव क्ष-
F
 
Sri Gargeshwari Digital Foundation