This page has been fully proofread once and needs a second look.

चौर्यरतादि न सम्यगिति वादिनं कश्चिद्वक्ति--
 
वृतिविवरनिर्गतस्य प्रमदाबिम्बाधरस्य मधु पिबते ।
अवधीरितपीयूषः स्पृहयति देवाधिराजोऽपि ॥ १३६ ॥
 
नृवृतीति । आवरणच्छिद्रनिर्गतस्य प्रकृष्टमदशालिन्या बिम्बतुल्याधरस्य मधु पिबते ।
'क्रुधद्रुह--' इत्यादिना चतुर्थी । अवगणितामृत इन्द्रोऽपि स्पृहयति । मद्रूपतावाप्त्यर्थ-
मित्यर्थः । एवं चेन्द्रपदसुखाद्यपेक्षयापि चौर्यरतसुखमधिकमित्यावेद्यते ॥
 
पुरुषविशेषे समासक्तायाः संगतिमपेक्षमाणं कंचन दूती वक्ति--
 
वासितमधुनि वधूनामवतंसे मौलिमण्डने यूनाम् ।
विलसति सा पुरकुसुमे मधुपीव वनप्रसूनेषु ॥ ५३७ ॥
 
वासितेति। वासितमुत्कृष्टताशालिकृतं मधु येन । एवं चैतत्समवधाने मद्यस्य मादकत्व-
मित्यावेद्यते । पक्षे मधुनः सौगन्ध्यार्थेथं पुष्पादिकं प्रक्षिप्यत इति भावः । नायिकानाम-
वतंसे श्रुतिभूषणरूपे । एवं च सर्वा अपि कामिन्यस्तदीयगुणश्रवणं सर्वदादरातिशयेन
कुर्वन्तीति भावः । तरुणानां मस्तकभूषणरूपे । वन्दनीय इत्यर्थः । नगरस्य कुसुमे ।
सर्वजगत्स्पृहणीयत्वादिति भावः । नायके । विशेषणमहिम्ना विशेष्यलाभः । सा विलसति
शोभते । एवं च त्वं न तस्याः शोभाधायक इति भावः । वनकुसुमे मधुपीव । एवं
चैतादृशनायकविशेषे समासक्ता न कथमपि त्वयि संयोजयितुं शक्येति भावः ॥
 
नायिकासखी नायकं वक्ति--
 
व्रीडाप्रसरः प्रथमं तदनु च रसभावपुष्टचेष्टेयम् ।
जवनीविनिर्गमादनु नटीव दयिता मनो हरति ॥ ३८ ॥
 
व्रीडेति । आदौ लजाप्रसरः । तदनन्तरं रसः शृङ्गारादिः, भावश्चित्ताभिप्रायः,
आभ्यां पुष्टा चेष्टा । जवनी विनिर्गमादनु नर्तकीवेयं दयिता मनो हरति । एवं च यथा
जवनिकाविनिर्गमानन्तरं नटी प्रथमतो लज्जातिशयं प्रदर्श्य ततो रसाभिनयपुष्टचेष्टां
प्रदर्शयति, ततो रसाविर्भावात् सामाजिकमनांसि हरति, तथेयं दयिता यथा जवन्यपस-
रति तथा प्रथमं लज्जाविशेषं विधाय ततः सरसाभिप्रायविलासं प्रदर्श्य ततो निर्भरर-
तानन्दवत्तया नायकीय मनसोऽनन्यप्रवणतामापादयतीति भावः । इयमित्यनेनान्यासां
प्रथमतो निर्लज्जतया किंचिन्मनोहारकत्वेऽपि न तासु नायकीयचित्तहारकत्व मिति
वस्त्वावेद्यते । तेन च व्यतिरेकालंकारः ॥
 
दूती नायकं वक्ति--
 
वाससि हरिद्रयेव त्वयि गौराङ्ग्या निवेशितो रागः ।
पिशुनेन सोऽपनीतः सहसा पतता जलेनेव ॥ ३९ ॥
 
वासस्रीसीति । वस्त्रे हरिद्रयेव गौराङ्गथाग्या नायिकया त्वयि रागोऽनुरागः । पक्षे पीतिमा ।