This page has not been fully proofread.

काव्यमाला ।
 
चौर्यरतादि न सम्यगिति वादिनं कश्चिद्वक्ति-
-
 
वृतिविवरनिर्गतस्य प्रमदाबिम्बाधरस्य मधु पिबते ।

अवधीरितपीयूषः स्पृहयति देवाधिराजोऽपि ॥ १३६ ॥
 
-
 

 
नृतीति । आवरणच्छिद्रनिर्गतस्य प्रकृष्टमदशालिन्या बिम्बतुल्याधरस्य मधु पिबते ।

'क्रुधद्रुह-' इत्यादिना चतुर्थी । अवगणितामृत इन्द्रोऽपि स्पृहयति । मद्रूपतावाप्त्यर्थ

मित्यर्थः । एवं चेन्द्रपदसुखाद्यपेक्षयापि चौर्यरतसुखमधिकमित्यावेद्यते ॥

 
पुरुषविशेषे समासक्तायाः संगतिमपेक्षमाणं कंचन दूती वक्ति-
-
 
वासितमधुनि वधूनामवतंसे मौलिमण्डने यूनाम् ।
 

विलसति सा पुरकुसुमे मधुपीव वनप्रसूनेषु ॥ ५३७ ॥

 
वासितेति। वासितमुत्कृष्टताशालिकृतं मधु येन । एवं चैतत्समवधाने मद्यस्य मादकत्व-

मित्यावेद्यते । पक्षे मधुनः सौगन्ध्यार्थे पुष्पादिकं प्रक्षिप्यत इति भावः । नायिकानाम-

वतंसे श्रुतिभूषणरूपे । एवं च सर्वा अपि कामिन्यस्तदीयगुणश्रवणं सर्वदादरातिशयेन

कुर्वन्तीति भावः । तरुणानां मस्तकभूषणरूपे । वन्दनीय इत्यर्थः । नगरस्य कुसुमे ।

सर्वजगत्स्पृहणीयत्वादिति भावः । नायके । विशेषणमहिम्ना विशेष्यलाभः । सा विलसति

शोभते । एवं च त्वं न तस्याः शोभाधायक इति भावः । वनकुसुमे मधुपीव । एवं

चैतादृशनायकविशेषे समासक्ता न कथमपि त्वयि संयोजयितुं शक्येति भावः ॥

 
नायिकासखी नायकं वक्ति-
-
 
व्रीडाप्रसरः प्रथमं तदनु च रसभावपुष्टचेष्टेयम् ।
 

जवनीविनिर्गमादनु नटीव दयिता मनो हरति ॥ १३८ ॥
 

 
व्रीडेति । आदौ लजाप्रसरः । तदनन्तरं रसः शृङ्गारादिः, भावश्चित्ताभिप्रायः,

आभ्यां पुष्टा चेष्टा । जवनी विनिर्गमादनु नर्तकीवेयं दयिता मनो हरति । एवं च यथा

जवनिकाविनिर्गमानन्तरं नटी प्रथमतो लजातिशयं प्रदर्श्य ततो रसाभिनयपुष्टचेष्टां

प्रदर्शयति, ततो रसाविर्भावात्सामाजिकमनांसि हरति, तथेयं दयिता यथा जवन्यपस-

रति तथा प्रथमं लजाविशेषं विधाय ततः सरसाभिप्रायविलासं प्रदर्श्य ततो निर्भरर-

तानन्दवत्तया नायकीय मनसोऽनन्यप्रवणतामापादयतीति भावः । इयमित्यनेनान्यासां

प्रथमतो निर्लजतया किंचिन्मनोहारकत्वेऽपि न तासु नायकीयचित्तहारकत्व मिति

वस्त्वावेद्यते । तेन च व्यतिरेकालंकारः ॥
 

 
दूती नायकं वक्ति -
 
-
 
वाससि हरिद्रयेव त्वयि गौराङ्गया निवेशितो रागः ।

पिशुनेन सोऽपनीतः सहसा पतता जलेनेव ॥ १३९

 
वासस्रीति । वस्त्रे हरिद्रयेव गौराङ्गथा नायिकया त्वयि रागोऽनुरागः । पक्षे पीतिमा ।
 
SODE.
 

 
Sri Gurgeshwari Diginal Fearion