This page has been fully proofread once and needs a second look.

विपन्निमग्नस्योद्धारः केनचिदेव कर्तुं शक्यो न सर्वैरिति कश्चिदन्योक्त्या कंचन
वक्ति--
 
विमुखे चतुर्मुखेऽपि श्रितिवति चानीशभावमीशेऽपि ।
मग्नमहीनिस्तारे हरिः परं स्तब्धरोमाभूत् ॥ ३२ ॥
 
विमुख इति । चतुर्मुखे विधातर्यपि विमुखे उद्योगशून्ये । यद्वानङ्गीकारकारिणि ।
ईशेऽप्यनी शभावमसमर्थभावं श्रितवति सति । मग्नधरोद्वाधारे परं केवलं हरिर्विष्णुः स्त-
ब्धरोमा वराहः । अथ च रोमाश्ञ्चितः । धरोद्धारोत्साहवशादिति भावः । अभूत् । च-
तुर्मुखेशपदाभ्यामनयोः सांनिध्यात् सामर्थ्यशालित्वं ध्वन्यते । तेन च तत्करणोत्साहा-
भावेन धरोद्धारकरणेऽतिकाठिन्यमावेद्यते । एवं च विष्णुतुल्येनैवापदुद्धारः कर्तुं शक्यो
नान्येनेति व्यज्यते ॥
 
कश्चित्कं कञ्चिदन्योक्त्या वक्ति--
 
वापीकच्छे वासः कण्टकवृतयः सजागरा भ्रमराः ।
केतक विटप किमेतैर्ननु वारय मञ्जरीगन्धम् ॥ ५३३ ॥
 
वापीति । हे केतकवृक्ष, वापीजलप्रायदेशे वसतिः । कण्टकावरणानि । निद्राशून्या
भ्रमराः । एतैः किम् । न किंचिदित्यर्थः । ननु निश्चितं मञ्जरीगन्धं वारय । एवं चैता-
दृशी नायिका यावत्तव समीपेऽस्ति, तावद्यत्र यत्र येन येन प्रकारेणावतिष्ठसि तत्राव-
श्यमन्यनायकोपसर्गो नापगमिष्यतीत्येतत्करणमनुचितमिति द्योत्यते ॥
 
नायको नायिकां वक्ति--
 
विचलसि मुग्धे विधृता यथा तथा विशसि हृदयमदये मे ।
शक्तिः प्रसूनधनुषः प्रकम्पलक्ष्यं स्पृशन्तीव ॥ ५३४ ॥
 
विचलसीति । हे मुग्धे सुन्दरि दयाशून्ये । एवं च गमनौचित्यमावेद्यते । विधृता ।
अञ्चलादाविति भावः । यथा विचलसि गच्छसि तथा मे हृदयं विशसि । प्रकम्पलक्ष्यं
स्पृशन्ती मदनस्य शक्तिरिव । एवं च त्वद्गमने मत्प्राणा एव गमिष्यन्तीति व्यज्यते ॥
 
सखी नायिकां वक्ति--
 
वीहितासमशरसमरो जितगाङ्गेयच्छविः कृताटोपः ।
पुरुषायिते विराजति देहस्तव सखि शिखण्डीव ॥ ३५ ॥
 
विहितेति । हे सखि, विहितः कृतः । विशेषेण हित इति वा । असमशरसमरो मद-
नयुद्धम् । सुरतमिति यावत् । येन । यस्येति वा । अत एव विपरीतरतोद्योगः । पक्षे
कृतोऽनुपमबाणैः सङ्ग्रामो येन सः । जिता गाङ्गेयस्य सुवर्णस्य । पक्षे भीष्मस्य । दीप्ति-
र्येन सः । संपादिताडम्बरः । तव देहो विपरीतरते शिखण्डीव विराजति । एवं च त्वया
बहुधा विपरीतरतमेव विधेयमिति ध्वन्यते ॥