This page has been fully proofread once and needs a second look.

कश्चित् कञ्चिद्वक्ति--
 
[^१]बाष्पाकुलं प्रलपतोर्गृहिणि निवर्तस्व कान्त गच्छेति ।
यातं दंपत्योर्दिनमनुगमनावधिसरस्तीरे ॥ ५२८ ॥
 
बाष्पेति । बाष्पव्याकुलं यथा भवति तथा 'गेहिनि, निवर्तस्व', 'कान्त, गच्छ' इति
प्रकृष्टालापवतोः । यद्वा परावृत्त्याद्यकरणेनानर्थकतया वृथा वदतोरित्यर्थः । 'प्रलापो-
ऽनर्थकं वचः' इत्यभिधानात् । दंपत्योरनुगमनस्यावधिभूतसरस्तीरे दिनं यातं व्यती-
तम् । एवं च प्रेम्णि सति न किंचिदपरं स्फुरतीति ध्वन्यते ॥
 
प्रतिज्ञापुरःसरविपरीतरतकारिणीं नायिकां नायको वक्ति--
 
वृक्षःप्रणयिनि सान्द्रश्वासे वाङ्मात्रसुभटि घनघर्मे ।
सुतनु ललाटनिवेशितललाटिके तिष्ठ विजितासि ॥ ५२९ ॥
 
वक्ष इति । वक्षसि । अर्थात्स्वस्य । प्रणयः प्रीतिर्यस्याः । स्वापार्थमिति भावः । दी-
र्घश्वासशालिनि । श्रमवशादिति भावः । वचनमात्रशूरे । मात्रपदेन सामर्थ्याभावोऽभि-
व्यज्यते । बहुतरप्रस्वेदवति, शोभनगात्रि, ललाटे । अर्थान्मम । संस्थापितललाटिके,
तिष्ठ तूष्णीं भव । यतो विजितासि । सर्वैः संबोधनपदैर्निःसहत्वप्रतिपादनाद्विजयस्य
व्यङ्ग्यत्वेऽपि विजितासीति पदोपादानं न चमत्कारकारीत्याभाति ॥
 
राधा कृष्णेऽत्यन्तमासक्ता जातेति काचित्कांचिद्वक्ति--
 
विचरति परितः कृष्णे राधायां रागचपलनयनायाम् ।
दशदिग्वेधविशुद्धं विशिखं विदधाति विषमेषुः ॥ ५३० ॥
 
विचरतीति । कृष्णे समन्ताद्विचरति सति, अनुरागचञ्चलनेत्रायां राधायां दशदिक्षु
यो वेधस्तत्र विशुद्धम् । दशदिक्ष्वपि लक्ष्यवेधकारिणमित्यर्थः । बाणं मदनो विदधाति ।
एवं च सर्वत्र राधाकटाक्षविषयः श्रीकृष्णोऽभूदिति ध्वन्यते ॥
 
काचित्कांचिद्वक्ति--
 
वीक्ष्यैव वेत्ति पथिकः पीवरबहुवायसं निजावासम् ।
सौन्दर्यैकनिधेरपि दयितायाश्चरितमविचलितम् ॥ ५३१ ॥
 
वीक्ष्यैवेति । पथिकः पुष्टबहुकाकम् । नायकागमनशकुनदर्शनार्थेथं दत्तदध्योदनादिनेति
भावः । स्वसदनं दृष्ट्वैव । न वचनादिनेत्यर्थः । सौन्दर्यैकस्थानभूतायाः । एवं चावश्यच-
रितव्यसनयोग्यत्वमावेद्यते । प्रियाया अविचलितमाचरणं जानाति । यदीयमन्यत्रासक्ता
स्यात्तदा किमिति मदर्थमे तादृशशकुनाद्यवेक्षणं कुर्यादिति भावः । यद्वानया रीत्या ना-
यकः प्रतारयितुं शक्यः, अतो यथेच्छं परपुरुषे विचरेति दूती 'त्वद्वचनकरणे नायको
मत्पातिव्रत्यभङ्गं विज्ञास्यति तेन चानुचितमिदम्' इति वादिनीं नायिकां वक्ति ॥
-----------------------------------------------------------------------------------------
[^१]. पवर्गीयबकारव्रज्योचितेयमार्या प्रमादेन दन्त्योष्ठ्यवकारव्रज्यायामादर्शपुस्तकेषु
लिखितेति भाति.