This page has been fully proofread once and needs a second look.

इति शेषः । विदितम् । अवुधुना तु हर्म्यहरिमुखमिवोभयोः साधारणं वेद्मि । एवं याव-
त्पर्यन्तमुभयोर्न दर्शनं संवृत्तं तावदन्यादृशी बुद्धिः स्थितेति भावः ॥
 
नायिकासखी नायकं वक्ति--
 
व्यजनस्येव समीपे गतागतैस्तापहारिणो भवतः ।
अञ्चलमिव चञ्चलतां मम सख्याः प्रापितं चेतः ॥ ५२४ ॥
 
व्यजनस्येति । व्यजनस्येव संतापापनोदकस्य भवतः समीपे । अर्थान्नायिकायाः ।
गमनागमनैर्वस्त्रप्रान्तमिव मम सख्याश्चित्तं चाश्ञ्चल्यं प्रापितम् । एवं च त्वयैव प्रथमासक्ति-
मुत्पाद्यैयेदानीमुदासीनवच्छैथिल्यं क्रियत इत्ययुक्तं तवेत्यतस्त्वरस्व तद्दर्शनायेति ध्वन्यते ।
यद्वा व्यजनस्येव तापहारिणः समीपे । नायिकाया इति भावः । भवतो गतागतैः । एवं
च लोकभीत्या कटाक्षवीक्षणाभावो व्यज्यते । सख्या अञ्चलमिव मम चेतश्चञ्चलतां
प्रापितम् । एवं च मान्मथव्यथापनोदकभवदीयसविधगतागतसंजातानुरागज नितहेलाव-
शात्कम्परूपसात्त्विक भावोदयवशाद्वा यथा सख्याश्चेलाञ्चले चञ्चलता तथा मन्मनसि
कया रीत्या कुत्र वानयोः संगम: संपादनीय इति चाञ्चल्यमुज्जृम्भत इति भावः ॥
 
नायको नायिकां वक्ति--
 
वितरन्ती रसमन्तर्ममार्द्रभावं तनोषि तनुगात्रि ।
अन्तः सलिला सरिदिव यन्निवससि बहिरदृश्यापि ॥ ५२
 
वितरन्तीति । हे कृशाङ्गि, अन्तः रसं प्रीतिं वितरन्ती ममार्द्रभावं तनोषि । यद्य-
स्मादन्तर्जला नदीव बहिरदृश्यापि निवससि । मम हृदीति भावः । एवं च बहिस्त्वद्वि-
षयकप्रेमाभावेऽप्यान्तरं प्रेम ममातितरामस्ति त्वद्विषयकमित्यावेद्यते ॥
 
`चिरतरकृतचाटुवचनादिरचनेऽप्यवधीरणात् कृतकखास्वापं नायकमनुतापवशादानेतुं प्रे-
षिता दूती नायिकां वक्ति--
 
विहितविविधानुबन्धो मानोन्नतयावधीरितो मानी ।
लभते कुतः प्रबोधं स जागरित्वैव निद्राणः ॥ ५२६ ॥
 
विहितेति । कृतानेकसान्त्वनोऽपि मानोद्धतया त्वयावगणितोऽभिमानशाली । एवं
च प्रसादनासंपादनाविरामौचित्यमावेद्यते । जाग्रदेव निद्रावान्प्रबोधं कुतो लभते । न
कुतोऽपीत्यर्थः । एवं चैतादृशनायकावधीरणकरणमनुचितमिति ध्वन्यते ॥
 
काचित्कांचिद्वक्ति--
 
व्रीडाविमुखीं वीतस्नेहामाशङ्क्य काकुवाङ्मधुरे ।
प्रेमार्द्रसापराधां दिशति दृशं वल्लभे बाला ॥ २७ ॥
 
व्रीडेति । लज्जाया परावृत्तवदनाम् । अर्थान्नायिकाम् । गतस्नेहामाशङ्क्य चाटुवच-
नमधुरे नायके बाला । एवं चाज्ञत्वं व्यज्यते । प्रेम्णार्द्रामपराधेन सहितां दृष्टिं करोति ।
एवं स्त्रीणामेतादृशी गतिरिति भावः ॥