This page has not been fully proofread.

१७४
 
काव्यमाला ।
 
लासैर्हृतचित्तः संवृत्तः, किं पुनरग्रेऽनया विधेयमिति भावः । पूर्वे गृहिणीमेवानुशोचा-
मीत्यनेन बालाविलासासक्तचिन्तनया खात्मनः परतन्त्रतया शोच्यत्वेऽपि मदीयैता-
दृशावस्थामालोक्य गृहिण्याः समधिकदुःखोद्रेको भवितेति तद्विषय एवानुशोचनं म-
ह्यमापतितमिति व्यज्यते ॥
 
मन्मथव्यथातोऽन्यव्यथाजातं नातिदुःखदमिति कश्चिद्वक्ति-
वीजयतोरन्योन्यं यूनोर्वियुतानि सकलगात्राणि ।
 
सन्मैत्रीव श्रोणी परं निदाघेऽपि न विघटिता ॥ ५२० ॥
वीजयतोरिति । परस्परं वीजयतोर्यूनोः समग्रावयवा विभागवन्तः संवृत्ताः । परं
केवलं श्रोणी सन्मैत्रीव निदाघकालेऽपि । अपिनावश्यविघटनार्हवं द्योलते । न वि.
युक्ता । निदाघदुःखागणनादिति भावः ॥
 
उपपतिरपसार्यतामिति दूती कांचिद्भङ्गयन्तरेण वक्ति -
 
व्यारोषं मानिन्यास्तमो दिवः कासरं कलमभूमेः ।
 
बद्धमलिं च नलिन्याः प्रभातसंध्यापसारयति ॥ ५२१ ॥
व्यारोषमिति । मानवत्या विशिष्टकोपम्, दिवोऽन्धकारम्, कलमभूमेः कासरं म
हिषम्, नलिन्या निरुद्धं भ्रमरं च प्रातःकालीनसंध्यापसारयति । एवं च प्रातःकालः
संवृत्तः, अतो यया रीत्यानीतोऽयं तथैव रीत्या नेय इति ध्वन्यते । संध्यापदेन यथा
योगसंपादनसामर्थ्य तथा पसारणसामर्थ्यमप्यपेक्षितमिति ध्वन्यते ॥
 
नायिकासखी नायकं वक्ति -
 
वक्षसि विजृम्भमाणे स्तनभिन्नं त्रुटति कञ्चुकं तस्याः ।
पूर्वदयितानुरागस्तव हृदि न मनागपि त्रुटति ॥ ५२२ ॥
 
वक्षसीति । वक्षसि विजृम्भमाणे स्तनौन्नत्यशालिनि स्तनभिन्नं कूर्पासकं तस्यात्रुटति।
तव हृदि प्रथमप्रियाप्रीतिरीषदपि न त्रुटतीति । एवं चैतस्यास्तारुण्योद्रेकेऽपि तव ना-
सक्तिः, अतस्त्वत्सदृशो न कोऽपि जड इति ध्वन्यते ॥
 
नायिकासखी नायकं वक्ति-
व्यक्तिमवेक्ष्य तदन्यां तस्यामेवेति विदितमधुना तु ।
 
हर्म्यहरिमुखमिव त्वामुभयोः साधारणं वेझि ॥ १२३ ॥
 
व्यक्तिमिति । तदन्यां नायिकाभिन्नां व्यक्तिमवेक्ष्य । तस्यामेव त्वमासक्त इति शेषः ।
इति ज्ञातम् । एवं च पूर्व सापीयमपि मया दृष्टैव तदानीं तवैतस्यामनादरादिना तस्या-
मेव प्रीतिरभूदिति विज्ञातमिति भावः । अधुना तु गृहद्वारसंबन्धि सिंहमुखमिव लामु-
भयोः साधारणं जानामि। एवं चेदानीं लमुभयत्र समबुद्धिरित्यस्थिरप्रकृतिकत्वं नायके
ध्वन्यते । 'अवीक्ष्य' इति पाठे तदन्यां प्रथमाभिन्नां नायिकामवीक्ष्य । तस्यामेवासक्त
Si Gurgeshwari Digital Foundation