2023-03-23 15:58:48 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
सुरतातिशयेन क्षीणशक्तिकलंत्वं नायके ध्वन्यते । एवं कृतापराधस्य तवात्र खास्वापो मम.
न सुखद इति ध्वन्यते । यद्वा कृतकनिद्रया नायिकां वञ्चयित्वान्यत्र गन्तुकामं नायकं
नायिका वक्ति–--वैमुख्येऽपि । त्वदीयदौः शील्यज्ञानादिति भावः । एवं च श्वासैर्मत्खास्वा-
पज्ञानोत्तरमियंखस्वप्स्यति ततो मयान्यत्र गन्तव्यमिति किमर्थेथं कापठ्ट्यं रचयसि, य-
थेच्छं गच्छेति ध्वन्यते ॥
कश्चित्कां काञ्चिद्वक्ति--
व्यक्तमधुना समेतः खण्डो मदिराक्षि दशनवसने ते ।
यन्नवसुधैकसारं लोभिनि तत्किमपि नाद्राक्षम् ॥ ५१८ ॥
व्यक्तमिति । हे मदिराक्षि । एवं च कटाक्षविक्षेपमात्रेणोन्मादजनकत्वं व्यज्यते ।
तव दशनवसन ओष्ठे समेतो लग्नः खण्ड इत्यधुना व्यक्तं प्रकटीभूतम् । एवं च पूर्ववं
किमपि नोक्तवती, अधुना तु मधुरवचनमभिधत्स इति भावः । यद्वा व्यक्तं स्वच्छम् ।
'व्यक्तं स्फुटे च स्वच्छे च' । यन्मधु माक्षिकं तत्समेतः खण्डः । अस्तीत्यध्याहारः ।
एवं चातिमाधुर्यमधरेऽस्तीति व्यज्यते । हे लोभिनि । एवं च सर्वसंग्रहकारित्वं ध्व-
न्यते । नूतनसुधैकसारं यत्तत्किमपि नाद्राक्षं न दृष्टवान् । अथ च द्राक्षाशून्यं न ।
एवं च केवलं मधुरं वदसि, कटाक्षयसि च, न पुनश्चुम्बनादिना मां जीवयसीति ध्व-
न्यते । यद्वा हे मदिराक्षि, तवाधरे समेतो लग्नः खण्ड इदमधुना व्यक्तम् । निश्चित-
मित्यर्थः । यद्वसुधैकसारं न । अपि तु त्रिभुवनसारमित्यर्थः । तत्किमपि लोभिनि ना-
पश्यम् । एवं चेदानींतनाधरचुम्बनेनाधरमाधुर्ये विज्ञातं परं तु त्रिभुवनसारभूतसुरतेन
किं मां न सुखयसीति व्यज्यते । अथ च त्वत्सुधैकसारं किमपि तन्न नाद्राक्षम् । अपि
तु सर्वे दृष्टवानस्मीत्यर्थः । एवं च मदिरामाक्षिक शर्करासुधाद्राक्षामधुरवस्तूनां त्वयि
सत्त्वेऽपि लोभवशार्तिकचिद्ददासि किंचित्र ददासीत्यनुचितमित्यावेद्यते ॥
नायकः सखायं वक्ति--
बालाविलासबन्धानप्रभवन्मनसि चिन्तयन्पूर्वम् ।
संमानवर्जितां तां गृहिणीमेवानुशोचामि ॥ ११९ ॥
बालेति । हे वयस्य, अप्रभवन्नसमर्थः । प्राथमिककान्ताधीनत्वादिति भावः । वा-
लाया विलासबन्धान्पूर्व चिन्तयन्स्थितः । प्राथमिककान्ताधीनेन मया कथमियं विला-
सविशेषशालिनी भोक्तव्येति चिन्तावान्संजात इति भावः । अधुना तु संमानरहि-
ताम् । द्वितीयकामिन्याः प्राबल्यादिति भावः । गृहिणीमेवानुशोचामि । गृहिणीमिय-
नेन मानार्हत्वेऽपि तदकरणेनानौचिती योयते । एवं च यस्या भयेन पूर्व किमपि क-
•तुमशक्तस्तस्या इदानीमेतादृशी गतिः संवृत्तेति धियेति भावः । एवं च पूर्वमिदानीमपि
न मां चिन्ता परित्यजतीति ध्वन्यते । यद्वा बालाया अप्रगल्भे मनसि विलासबन्धांश्चि-
न्तयन्नहं पूर्वे प्रतिष्ठावजितां गृहिणीमेवानुशोचामि । एवं चाप्रगल्भवयस्यनयैतादृशवि-
न सुखद इति ध्वन्यते । यद्वा कृतकनिद्रया नायिकां वञ्चयित्वान्यत्र गन्तुकामं नायकं
नायिका वक्ति
पज्ञानोत्तरमियं
थेच्छं गच्छेति ध्वन्यते ॥
कश्चित्
व्यक्तमधुना समेतः खण्डो मदिराक्षि दशनवसने ते ।
यन्नवसुधैकसारं लोभिनि तत्किमपि नाद्राक्षम् ॥ ५१८ ॥
व्यक्तमिति । हे मदिराक्षि । एवं च कटाक्षविक्षेपमात्रेणोन्मादजनकत्वं व्यज्यते ।
तव दशनवसन ओष्ठे समेतो लग्नः खण्ड इत्यधुना व्यक्तं प्रकटीभूतम् । एवं च पूर्