This page has not been fully proofread.

आर्यासप्तशती ।
 
सुरतातिशयेन क्षीणशक्तिकलं नायके ध्वन्यते । एवं कृतापराधस्य तवात्र खापो मम.

न सुखद इति ध्वन्यते । यद्वा कृतकनिद्रया नायिकां वञ्चयित्वान्यत्र गन्तुकामं नायकं

नायिका वक्ति–वैमुख्येऽपि । त्वदीयदौः शील्यज्ञानादिति भावः । एवं च श्वासैर्मत्खा-

पज्ञानोत्तरमियं खप्स्यति ततो मयान्यत्र गन्तव्यमिति किमर्थे कापठ्यं रचयसि, य-

थेच्छं गच्छेति ध्वन्यते ॥
 

 
कश्चित्कांचिद्वक्ति-
-
 
व्यक्तमधुना समेतः खण्डो मदिराक्षि दशनवसने ते ।

यन्नवसुधैकसारं लोभिनि तत्किमपि नाद्राक्षम् ॥ ५१८ ॥

 
व्यक्तमिति । हे मदिराक्षि । एवं च कटाक्षविक्षेपमात्रेणोन्मादजनकत्वं व्यज्यते ।

तव दशनवसन ओष्ठे समेतो लग्नः खण्ड इत्यधुना व्यक्तं प्रकटीभूतम् । एवं च पूर्व

किमपि नोक्तवती, अधुना तु मधुरवचनमभिधत्स इति भावः । यद्वा व्यक्तं स्वच्छम् ।

'व्यक्तं स्फुटे च स्वच्छे च' । यन्मधु माक्षिकं तत्समेतः खण्डः । अस्तीत्यध्याहारः ।

एवं चातिमाधुर्यमधरेऽस्तीति व्यज्यते । हे लोभिनि । एवं च सर्वसंग्रहकारित्वं ध्व-

न्यते । नूतनसुधैकसारं यत्तत्किमपि नाद्राक्षं न दृष्टवान् । अथ च द्राक्षाशून्यं न ।

एवं च केवलं मधुरं वदसि, कटाक्षयसि च, न पुनश्चुम्बनादिना मां जीवयसीति ध्व-

न्यते । यद्वा हे मदिराक्षि, तवाधरे समेतो लग्नः खण्ड इदमधुना व्यक्तम् । निश्चित-

मित्यर्थः । यद्वसुधैकसारं न । अपि तु त्रिभुवनसारमित्यर्थः । तत्किमपि लोभिनि ना-

पश्यम् । एवं चेदानींतनाधरचुम्बनेनाधरमाधुर्ये विज्ञातं परं तु त्रिभुवनसारभूतसुरतेन

किं मां न सुखयसीति व्यज्यते । अथ च त्वत्सुधैकसारं किमपि तन्न नाद्राक्षम् । अपि

तु सर्वे दृष्टवानस्मीत्यर्थः । एवं च मदिरामाक्षिक शर्करासुधाद्राक्षामधुरवस्तूनां त्वयि

सत्त्वेऽपि लोभवशार्तिकचिद्ददासि किंचित्र ददासीत्यनुचितमित्यावेद्यते ॥

 
नायकः सखायं वक्ति-

 
-
 
-
 
बालाविलासबन्धानप्रभवन्मनसि चिन्तयन्पूर्वम् ।

संमानवर्जितां तां गृहिणीमेवानुशोचामि ॥ ११९ ॥
 

 
बालेति । हे वयस्य, अप्रभवन्नसमर्थः । प्राथमिककान्ताधीनत्वादिति भावः । वा-

लाया विलासबन्धान्पूर्व चिन्तयन्स्थितः । प्राथमिककान्ताधीनेन मया कथमियं विला-

सविशेषशालिनी भोक्तव्येति चिन्तावान्संजात इति भावः । अधुना तु संमानरहि-

ताम् । द्वितीयकामिन्याः प्राबल्यादिति भावः । गृहिणीमेवानुशोचामि । गृहिणीमिय-

नेन मानार्हत्वेऽपि तदकरणेनानौचिती योयते । एवं च यस्या भयेन पूर्व किमपि क-

•तुमशक्तस्तस्या इदानीमेतादृशी गतिः संवृत्तेति धियेति भावः । एवं च पूर्वमिदानीमपि

न मां चिन्ता परित्यजतीति ध्वन्यते । यद्वा बालाया अप्रगल्भे मनसि विलासबन्धांश्चि-

न्तयन्नहं पूर्वे प्रतिष्ठावजितां गृहिणीमेवानुशोचामि । एवं चाप्रगल्भवयस्यनयैतादृशवि-
Sri Gargeskewari Digital Foundation