This page has been fully proofread once and needs a second look.

तस्याः सौम्यत्वमाशङ्कय विरतिक्य विरतिर्विधेयेति ध्वन्यते । यद्वेयमत्यन्तविनयशालिनीति न
परपुरुषाभिलाषिणीति मन्यमानं वयस्यो वक्ति--निपुणैः प्रत्यभिज्ञेया । एवं च मूर्खा-
णामियं सौम्येति ज्ञानम्, न निपुणानामिति भावः ॥
 
सखी नायकं वक्ति--
 
विहितबहुमानमौना सखीप्रबोधैर्यदत्स्रमातनुते ।
रागार्तिकाकुयाच्ञालघुरीक्षा रहसि पुनरेषा ॥ ५१४ ॥
 
विहितेति । विहितं बहुमानेन मौनं यया । सखीनां प्रबोधनैर्यदलमश्रु आतनुते ।
एषा पुनरेकान्ते रागे यातिदींर्तिर्दीनवचनं प्रार्थना एतैर्लघुवीक्षा । एवं चाधुनेयमेतादृश-
मानशालिनी दृश्यते परंतु रहसि रागजनितपीडादिभिः स्वयमेव स्वहस्तगतावश्यं भ-
विष्यतीति ध्वन्यते । 'लघुरीक्ष्य।या' इति पाठे रागार्त्यादिभिर्लघुरेषेक्ष्येति योजना ॥
 
स्वनायिका यामनासक्तं काचिद्वक्ति--
 
विषमशर विशिखभिन्ना पल्ली शरणं यमेकमभिलपति ।
तस्य तव च्छायेव स्वीया जायापि भयभूमिः ॥ ५१
 
विषमेति । मदनबाणभिन्ना पल्ली यमेकं शरणं रक्षणकर्तारं वाञ्छति तस्य तव
च्छायेव स्वगतापि भयस्थानम् । विषमशरेत्यनेन दुःसहत्वं ध्वन्यते । पल्ली यमेकमित्य-
नेन मदनातिशय शालित्वमावेद्यते । छायेवेत्यनेन सर्वदा सेवाप्रवणत्वं नायिकायामावे-
द्यते । एवं चैतादृशाचरणमनुचितमिति व्यज्यते । यद्वा दूती स्वनायिकासंकोचशा-
लिनं नायकं वक्ति--विषमेति । एवं च स्वाधीनायाः स्वनायिकायास्तव का भीतिः,
अतश्चल संकेतं प्रतीति व्यज्यते ॥
 
पराक्रमशालिनि नायके नायिकात्यन्तमासक्ता भवतीति काचित्कं कञ्चिद्वक्ति--
 
विविधायुधत्व्रणार्बुदविषमे वक्षःस्थले प्रियतमस्य ।
श्रीरपि वीरवधूरपि गर्वोत्पुलका सुखं स्वपिति ॥ ५१६ ॥
 
विविधेति । नानाप्रकारकायुधानां ये व्रणास्तेषामर्बुदैर्मोमांसकीलैः । 'अर्बुदो मांसकीले
स्यात्संख्याभेदे च कीर्तितः' । कठिने नायकस्य वक्षःस्थले गर्वोत्कृष्टपुलका लक्ष्मीर्वी-
रस्त्री च सुखं निद्राति ॥
 
कृतनायकान्तरोपभोगं निभृतं पृष्ठतः सुप्तं नायकं नायिका वक्ति--
 
वैमुख्येऽपि विमुक्ताः शरा इवान्याययोधिनो वितनोः ।
भिन्दन्ति पृष्ठपतिताः प्रिय हृदयं मम तव श्वासाः ॥ ५१७ ॥
 
वैमुख्येऽपीति । हे प्रिय । एवं चैतादृशकर्तव्यतयातिदुःखदत्वमित्यावेद्यते । अन्याःया-
ययुद्धकारिणो मदनस्य वैमुख्येऽपि परावृत्तावपि विशेषेण मुक्ताः । उपसर्गेणातिभेद-
कत्वं ध्वन्यते । बृबाणा इव पृष्संलग्नास्तव श्वासा मम हृदयं भिन्दन्ति। वितनोरित्यनेन