2023-02-27 22:10:51 by ambuda-bot
This page has not been fully proofread.
१७२
काव्यमाला ।
तस्याः सौम्यत्वमाशङ्कय विरतिविधेयेति ध्वन्यते । यद्वेयमत्यन्तविनयशालिनीति न
परपुरुषाभिलाषिणीति मन्यमानं वयस्यो वक्ति – निपुणैः प्रत्यभिज्ञेया । एवं च मूर्खा-
णामियं सौम्येति ज्ञानम्, न निपुणानामिति भावः ॥
सखी नायकं वक्ति-
विहितबहुमानमौना सखीप्रबोधैर्यदत्रमातनुते ।
रागार्तिकाकुयाच्ञालघुरीक्षा रहसि पुनरेषा ॥ ५१४ ॥
विहितेति । विहितं बहुमानेन मौनं यया । सखीनां प्रबोधनैर्यदलमश्रु आतनुते ।
एषा पुनरेकान्ते रागे यातिदींनवचनं प्रार्थना एतैर्लघुवीक्षा । एवं चाधुनेयमेतादृश-
मानशालिनी दृश्यते परंतु रहसि रागजनितपीडादिभिः स्वयमेव स्वहस्तगतावश्यं भ-
विष्यतीति ध्वन्यते । 'लघुरीक्ष्य।' इति पाठे रागार्त्यादिभिर्लघुरेषेक्ष्येति योजना ॥
वनायिका यामनासक्तं काचिद्वक्ति
--
विषमशर विशिखभिन्ना पल्ली शरणं यमेकमभिलपति ।
तस्य तव च्छायेव स्वीया जायापि भयभूमिः ॥ ५१९ ॥
विषमेति । मदनबाणभिन्ना पल्ली यमेकं शरणं रक्षणकर्तारं वाञ्छति तस्य तव
च्छायेव स्वगतापि भयस्थानम् । विषमशरेत्यनेन दुःसहत्वं ध्वन्यते । पल्ली यमेकमित्य-
नेन मदनातिशय शालिवमावेद्यते । छायेवेत्यनेन सर्वदा सेवाप्रवणत्वं नायिकायामावे-
द्यते । एवं चैतादृशाचरणमनुचितमिति व्यज्यते । यद्वा दूती वनायिकासंकोचशा-
लिनं नायकं वक्ति–विषमेति । एवं च स्वाधीनायाः स्वनायिकायास्तव का भीतिः,
अतश्चल संकेतं प्रतीति व्यज्यते ॥
पराक्रमशालिनि नायके नायिकात्यन्तमासक्ता भवतीति काचित्कंचिद्वक्ति -
विविधायुधत्रणार्बुदविषमे वक्षःस्थले प्रियतमस्य ।
श्रीरपि वीरवधूरपि गर्वोत्पुलका सुखं स्वपिति ॥ ५१६ ॥
विविधेति । नानाप्रकारकायुधानां ये व्रणास्तेषामर्बुदैर्मोसकीलैः । 'अर्बुदो मांसकीले
स्यात्संख्याभेदे च कीर्तितः' । कठिने नायकस्य वक्षःस्थले गर्वोत्कृष्टपुलका लक्ष्मीर्वी-
रस्त्री च सुखं निद्राति ॥
कृतनायकान्तरोपभोगं निभृतं पृष्ठतः सुप्तं नायकं नायिका वक्ति-
वैमुख्येऽपि विमुक्ताः शरा इवान्याययोधिनो वितनोः ।
भिन्दन्ति पृष्ठपतिताः
वैमुख्येऽपीति । हे प्रिय । एवं
प्रिय हृदयं मम तव श्वासाः ॥ ५१७ ॥
चैतादृशकर्तव्यतयातिदुःखदत्वमित्यावेद्यते । अन्याः
ययुद्धकारिणो मदनस्य वैमुख्येऽपि परावृत्तावपि विशेषेण मुक्ताः । उपसर्गेणातिभेद-
कत्वं ध्वन्यते । बृणा इव पृष्रसंलग्नास्तव श्वासा मम हृदयं भिन्दन्ति। वितनोरित्यनेन
Sn Gargeshwori Digital Foundation