This page has been fully proofread once and needs a second look.

संतापनिवृत्तेरिति भावः । ये श्वासास्तेषां सेकेन निद्राणः । सेकस्य द्रवद्रव्यीयत्वेन श्वा
सद्वारा वारिसंबन्धो लक्ष्यते । तेन च सुखनिद्रायोग्यत्वं व्यज्यते । विततालिरुतमेव
घोरितं यस्य । नाभिसरोजे विधिर्जगन्निर्माणकर्ता । एवं च श्रमवत्त्वान्निद्रायोग्यत्वं
ध्वन्यते । जयति । सरोजशयनशीतमन्दसुगन्धसमीरणसुखस्वापवत्त्वादिति भावः ॥
 
एकरद द्वैमातुर निस्त्रिगुण चतुर्भुजापि पञ्चकर ।
जय षण्मुखनुत सप्तच्छदगन्धिमदाष्टतनुतनय ॥ २७ ॥
 
एकेति । एकदन्त । द्वैमातुर । पार्वतीगङ्गारूपमातृद्वयवत्त्वात् । नित्रिगुण । एवं
ब्रह्मरूपत्वं द्योत्यते । चतुर्भुजापि पञ्चकर । अपिर्विरोधाभासार्थकः । शुण्डामादाय पश्चक-
रत्वम् । अन्यथा तु तस्यास्ति चतुर्भुजत्वम् । षण्मुखनुत । ज्येष्ठत्वादिति भावः । सप्त-
च्छदगन्धिर्मदो यस्य । अष्टतनुर्महादेवस्तत्तनय । एतादृशस्त्वं जय । संख्याक्रममा-
त्रमत्र ॥
 
मङ्गलकलशद्वयमयकुम्भमदम्भेन भजत गजवदनम् ।
यद्दानतोयतरलैस्तिलतुलनालम्बि रोलम्बैः ॥ २८ ॥
 
मङ्गलेति । मङ्गलकलशद्वयरूपौ कुम्भौ यस्य तम् । एवं च विघ्नविनाशनक्षमत्वं
ध्वन्यते । गजवदनम् । अदम्भेन । एवं च दम्भेन भजनमनर्थकमित्यावेद्यते । यदीयदा-
नोदकार्थं चञ्चलैः । सौरभ्यशालित्वाद्दानोदकस्येति भावः । तरलपदेन सकलकुसुमगन्धा-
धिकत्वं दानगन्धे व्यज्यते । रोलम्बैभ्रमरैः । तिलसाम्यम् । श्यामत्वादिति भावः ।
एवं च कुम्भयोर्महत्तरत्वं ध्वन्यते । आलम्बि । गणपतिविषयकोऽत्र भावध्वनिः ॥
 
याभिरनङ्गः साङ्गीकृतः स्त्रियोऽस्त्रीकृताश्च ता येन ।
वामाचरणप्रवणौ प्रणमत तौ कामिनीकामौ ॥ २९ ॥
 
याभिरिति । याभिः स्त्रीभिरनङ्गो मदनः साङ्गीकृतः । स्वयं तत्साहाय्यसंपादनादिति
भावः । येन मदनेन ताः स्त्रियोऽस्त्रीकृताः । स्वविजयसाधनत्वेनेति भावः । इति वामस्य
सुन्दरस्य । समीचीनस्येति यावत् । यदाचरणम् । समीचीनाचरणमित्यर्थः । तत्र
प्रवणौ तत्परौ । एवं चाङ्गहीनस्य साङ्गतासंपादनात्, एवमेव स्त्रीत्वेन नायकाधीनानां
स्त्रीणां स्वास्त्ररूपतासंपादनेन नायकस्य तदधीनत्वसंपादनात्, उपकारप्रवणत्वमुभयो-
र्व्यज्यते । अत एवैतादृक्कामिनीकामौ प्रणमत । एवं चैतत्सेवया समीचीनमेव भवि-
ष्यतीति ध्वन्यते । यत्त्वङ्गरहितस्याङ्गवत्तासंपादनात, स्त्रीणां च स्त्रीभिन्नत्वसंपादनात,
विरुद्धाचरणस्वाभाव्यात्, कामिनीकामौ प्रणमत, एवं चैतयोः संगतिः सतां नोचिते-
ति व्यज्यत इति व्याख्यानं तन्मङ्गलप्रकरणविरोधादसमञ्जसमिवाभाति । यद्वा पर-
स्परमप्येतयोरीदृशविपरीताचरणप्रवणत्वे प्रियान्यस्य तत्करणस्यातिसुगमत्वात्तत्सेवैव
समुचितेति ध्वन्यते ॥