2023-03-22 17:19:05 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
टीकृतः । व्यजनपरित्यागेन संतापनिवृत्तिप्रदर्शनेन प्रसादः प्रकटीकृत इति भावः । यद्वा
गवाक्षे व्यजनस्थापनेनान्यानवलोकनीयत्व प्रदर्शनेन यथेच्छं सुरतविघ्नाभावद्योतनात्प्रसा-
दप्रकटनमिति भावः । यद्वा केलिसदनस्य बहिः सखीविषये प्रणतिकारिणि मयि प्रियया
वातायने व्यजनं दत्त्वा प्रसादः प्रकटीकृतः । कुपितेयं कदाचिद्गवाक्षद्वारा तर्जयिष्यतीति
भीत: सखीप्रसादनां विहाय यदि गतस्तदा ताभिर्मत्प्रार्थनाया अकरणे मानापरित्यागेन
नायकक्लेशो भवितेति यथेष्टमयं सखीप्रसादनां करोतु, ताश्च मदीयप्रसादना मिति प्रसादा-
विष्करणमिति भावः । अथवा गवाक्षे व्यजनसंस्थापनेन समीरणजनकस्यापि समीरणनि-
वारकत्वं यथा तथा दुःखजनकस्यापि तव दुःखनिवारकत्वमिति प्रदर्शनेन प्रसादाविष्कार
इति भावः । एवं चैतस्या यथा चातुर्येयं न तथान्यासामिति ध्वन्यते ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गग्यार्थदीपनया समेता लकारव्रज्या ।
-----------------------------
वकारव्रज्या ।
सर्वगोपनपुरःसरमनेनेयं भुक्तेति व्यङ्गं काचित्कांचित्प्रकारान्तरेण वक्ति--
वर्णहतिर्न ललाटे न लुलितमङ्गं न चाघरे दंशः ।
उत्पलमहारि वारि च न स्पृष्टमुपायचतुरेण ॥ ५११ ॥
वर्णेति । ललाटे वर्णस्य मकरिकादेर्हतिर्न । अङ्गमपि न म्लानम् । अधरे दंशोऽपि
न । अर्थान्नायिकायाः । उपायनिपुणेनोत्पलं हृतं जलं च न स्पृष्टम् । एवं च सहचरी -
भिरपि न ज्ञातमिति भावः । नायिकाया परकीयात्वात्संभोगचिह्नानुत्पादनपुरःसरं भुक्ते-
यमनेनेति भावः । एवं यद्येतादृशचातुर्ये तव तर्हि परकीयाभिरतिर्विधेयेति ध्वन्यते ॥
दूती पान्थं प्रति वक्ति--
व्यालम्बि चूर्णकुन्तलचुम्बितनयनाञ्चले मुखे तस्याः ।
बाप्पजलबिन्दवोऽलकमुक्ता इव पान्थ निपतन्ति ॥ ५१२ ॥
व्यालम्बीति । हे पान्थ, तस्या वदने विशेषेणालम्बिनो ये चूर्णकुन्तलास्तै चुम्बित-
नयनप्रान्ते सति, अलकसंबन्धिमुक्ताफलानीव बाष्पोदकबिन्दवः । जलपदेनाधिक्यं
व्यज्यते । निपतन्ति । एवं च त्वरया त्वया समागन्तव्यमिति ध्वन्यते ॥
सखी नायकं वक्ति--
विनयविनता दिनेऽसौ निशि मदनकलाविलासलसदङ्गी ।
निर्वाणज्वलितौषधिरिव निपुण प्रत्यभिज्ञेया ॥ ११३ ॥
बिनयेति । हे निपुण । एवं च यथाकथंचिद्दर्शनेन कलाविहीनत्वमेव तस्यां त्वया
नाशङ्कनीयमिति व्यज्यते । असौ नायिका दिवसे विनयनम्रा, रात्रौ मदनकला विलासै -
र्लसदङ्गी निर्वाणज्वलितौषधिरिव प्रत्यभिज्ञेया । एवं च यथा काचिदोषधी दिवा सौम्या
रात्रौ प्रज्वलति तथेयं दिवसेऽतिसौम्या रात्री तु मदनकलाकुशला, अतो नैतत्कालीनै-
गवाक्षे व्यजनस्थापनेनान्यानवलोकनीयत्व
दप्रकटनमिति भावः । यद्वा केलिसदनस्य बहिः सखीविषये प्रणतिकारिणि मयि प्रियया
वातायने व्यजनं दत्त्वा प्रसादः प्रकटीकृतः । कुपितेयं कदाचिद्गवाक्षद्वारा तर्जयिष्यतीति
भीत: सखीप्रसादनां विहाय यदि गतस्तदा ताभिर्मत्प्रार्थनाया अकरणे मानापरित्यागेन
नायकक्लेशो भवितेति यथेष्टमयं सखीप्रसादनां करोतु, ताश्च मदीयप्रसादना
विष्करणमिति भावः । अथवा गवाक्षे व्यजनसंस्थापनेन समीरणजनकस्यापि समीरणनि-
वारकत्वं यथा तथा दुःखजनकस्यापि तव दुःखनिवारकत्वमिति प्रदर्शनेन प्रसादाविष्कार
इति भावः । एवं चैतस्या यथा चातुर्
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्