This page has not been fully proofread.

१७०
 
काव्यमाला ।
 
प्रीतिमत् । साबाधं पीडासहितम् । एवं च यथा सत्वरं सङ्गो भवेत्तथा यतखेति
ध्वन्यते ॥
 
बह्वङ्गनालम्पटनायिकामेवं त्वया नायको वाच्य इति सखी समुपदिशति-
लज्जयितुमखिलगोपीनिपीतमनसं मधुद्विषं राधा ।
 
अज्ञेव पृच्छति कथां शंभोर्दयितार्धतुष्टस्य ॥ १०८ ॥
 
लज्जयितुमिति । समग्रगोपीनां नितरां पीतं स्वाधीनीकृतं मनो येन तम् । नितरा-
मित्यनेन गोपीमनसोऽन्यविषयसंबन्धाभावो व्यज्यते । मधुद्विषम् । एवं चोन्मादश-
न्यत्वं ध्वन्यते । लजयितुं लज्जां प्रापयितुम् । राधा अज्ञेव दयितार्धेन तुष्टस्य शंभोः
सुखजनकस्य कथां पृच्छति । एवं च सर्वदा कामबाधाशालिनः कामिनीसुखसंपाद -
कस्य महादेवस्य नायिकार्थेन तुष्टिः, तव तु न तथेति निर्लजस्त्वमसीति द्योयते । एवं
च यथा राधयान्यवार्तया श्रीकृष्णं प्रत्यनुचितं त्वया विधीयत इत्युक्तं तथा त्वया खना-
यकं प्रति वाच्यमिति ध्वन्यते । यद्वा लजयितुम् । अर्थाद्गोपीसमूहम् । निखिलगोपी-
भिर्मिलिताभिर्निपीतं स्वीकृतं मनो यस्य तं मधुद्विषं दयितार्धतुष्टस्य शंभोः कथां
पृच्छति । एवं च यत्र दयितार्धमेव नायिकस्य सुखसंपादकतया तन्मनोवशीकरणसमर्थम्,
तत्र किमु वाच्यं नायिकाजातमिति भावः । अथवा निपीतं मनो यासाम् । न तु ताभि•
रित्यर्थः । एवं च गुणविशेषशालितया हरनिरूपितप्रेमवत्तया शिवया स्वस्पार्धेनापि
नायकः संतोष्य स्वाधीनतां नीतः, भवतीभिश्च सर्वाभिर्न मधुद्विट् स्वाधीनीकृत इति
भवत्यो गुणविहीनतया न तत्र निरूपितप्रेमवत्य इति व्यज्यते । एवं च गोपीपदमपि
चातुर्याभावप्रतिपादनेनार्थंवत् ॥
 
सपत्नीत्वमत्यन्तासयमिति काचित्कांचिद्वक्ति-
लक्ष्मीनिःश्वासानलपिण्डीकृतदुग्धजलधिसारभुजः ।
 
क्षीरनिधितीरसुदृशो यशांसि गायन्ति राधायाः ॥ ५०९ ॥
 
लक्ष्मीति । लक्ष्म्या निःश्वासानलैः । परमेश्वरस्य राधातिसक्येर्ष्ययोष्णैरिति भावः ।
गाढीकृतदुग्धजलघिसारभोजनवत्यः क्षीरनिधितीरवसतिशालिन्यो नायिका राधाया
यशांसि गायन्ति । यत्प्रसादादेवमस्माभिर्भुज्यत इति धियेति भावः । एवं च यत्र
लक्ष्म्या अप्येवं सपत्नीदुःखम्, तत्र किमु वाच्यमन्यासामिति व्यज्यते ॥
 
कश्चित्कंचिद्वक्ति-
-
 
लीलागारस्य बहिः सखीषु चरणातिथौ मयि प्रियया ।
प्रकटीकृतः प्रसादो दत्त्वा वातायने व्यजनम् ॥ ५१० ॥
लीलेति । केलिसदनस्य बहिः सखीषु सतीषु । मयि चरणातिथौ प्रणतिकारिणि ।
चरणातिथावित्यनेन प्रसादपात्रत्वं ध्वन्यते । प्रियया गवाक्षे व्यजनं दत्त्वा प्रसादः प्रक-