2023-03-22 17:07:12 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
नायिका सखीं वक्ति-
लूतातन्तुनिरुद्धद्वारः शून्यालयः पतत्पतगः ।
पथिके तस्मिन्नञ्चलपिहितमुखो रोदितीव सखि ॥ ५०४ ॥
ललूतेति । हे सखि, ऊर्णनाभतन्तुपिहितद्वारः । पतन्तः पक्षिणो यत्र । शून्यालयः ।
तस्मिन्नायके पथिके देशान्तरस्थे सति वस्त्रपिहितवदनो रोदितीव । एवं चैतादृशैतद्रोदन-
निवारणं पुण्यजनकतयावश्यं विधेयं त्वयेति द्योत्यते । तेन च तद्गमनोत्तरकालमारभ्य न
केनाप्यत्र सङ्गः संवृत्तः । अत इदानीमन्यनायकमानयेति ध्वन्यते ॥
नायकः सखायं वक्ति--
लग्नं जघने तस्याः सुविशाले कलितकरिकरक्रीडे ।
वप्रे सक्तं द्विपमिव शृङ्गारस्त्वां विभूषयति ॥१५०५ ॥
लग्नमिति । समीचीनविस्तीर्णे कलिताङ्गीकृता 'तर्जन्यनामिके युक्ते मध्यमा स्याद्वब-
हिष्कृता । करिहस्तः समुद्दिष्टः कामशास्त्रविशारदैः ॥' इत्येतल्लक्षणलक्षितस्य करिकरस्य
केलिर्येन तस्मिन् । पक्षेऽङ्गीकृतगजशुण्डाकेलौ । तस्या जघने लग्नं त्वां शृङ्गारो वप्रे
सक्तं गजमिव विशेषेण भूषयति । एवं चैतादृशमेव सर्वदा कुर्विति ध्यन्यते । 'द्व्यर्थैः पदैः
पिशुनयेच्च रहस्यवस्तु' इति कामशास्त्रादत्र सुरतारम्भगोष्ठीवत्कलितकरिकरक्रीड इ-
त्यर्थस्य यद्व्रीडादायित्वेनाश्लीलत्वं तन्न दूषणम् ॥
यथा न कस्यापि विज्ञानं भवति तथानेनेयं भुक्तेति काचित्कांचिदन्योक्त्या वक्ति--
लिप्तं न मुखं नाङ्गं न पक्षती न चरणाः परागेण ।
अस्पृशतेव नलिन्या विदग्धमधुपेन मधु पीतम् ॥१५०६ ॥
लिप्तमिति । परागेण वदनं न लिप्तम् । इदममेग्रेऽप्यन्वेति लिङ्गवचन विपरिणामेन ।
अङ्गं न। पक्षती न । चरणा न । स्पर्शमकुर्वतेव चतुर मधुपेन । मधुपदेनोन्मादशालित्वमा-
वेद्यते । नलिन्या मधु पीतम् । नलिन्या इत्यनेन नायिकायां पद्मिनीत्वमावेद्यते । तेन च
दुर्लभत्वम् । एवं चैतस्याः सङ्गोऽपि गुप्ततयैव लब्धुं शक्य इति व्यज्यते ॥
नायको दूत वक्ति--
लग्नं जघने तस्याः शुष्यति नखलक्ष्म मानसं च मम ।
भुक्तमविशदमवेदनमिदमधिकसरागसाबाघधम् ॥ १५०७ ॥
लग्नमिति । तस्या जघने लग्नं नखचिह्नं मम मानसं च शुष्यति । मानसपदेन शु-
ष्कीभावानर्हत्वेऽपि तद्भवनेन विरहे वडवानलतुल्यत्वमावेद्यते । तेन च दुःसहत्वम् ।
शुष्की भावेषूभयोर्वैलक्षण्यमाह - -भुक्तं वृद्धिशून्यम् । अविशदमप्रकटम् । यद्वा न विद्यते
विशदं यस्मात् । चिरकालीनतया लौहित्यापगमेन श्वेतमित्यर्थः । अवेदनं वेदनारहितम् ।
इदम् । मम मानसमित्यर्थः । अधिकं वृद्धिमत् । जघनेऽत्यन्तासक्तमिति भावः । सरागं
लूतातन्तुनिरुद्धद्वारः शून्यालयः पतत्पतगः ।
पथिके तस्मिन्नञ्चलपिहितमुखो रोदितीव सखि ॥ ५०४ ॥
तस्मिन्नायके पथिके देशान्तरस्थे सति वस्त्रपिहितवदनो रोदितीव । एवं चैतादृशैतद्रोदन-
निवारणं पुण्यजनकतयावश्यं विधेयं त्वयेति द्योत्यते । तेन च तद्गमनोत्तरकालमारभ्य न
केनाप्यत्र सङ्गः संवृत्तः । अत इदानीमन्यनायकमानयेति ध्वन्यते ॥
नायकः सखायं वक्ति--
लग्नं जघने तस्याः सुविशाले कलितकरिकरक्रीडे ।
वप्रे सक्तं द्विपमिव शृङ्गारस्त्वां विभूषयति ॥
लग्नमिति । समीचीनविस्तीर्णे कलिताङ्गीकृता 'तर्जन्यनामिके युक्ते मध्यमा स्याद्
हिष्कृता । करिहस्तः समुद्दिष्टः कामशास्त्रविशारदैः ॥' इत्येतल्लक्षणलक्षितस्य करिकरस्य
केलिर्येन तस्मिन् । पक्षेऽङ्गीकृतगजशुण्डाकेलौ । तस्या जघने लग्नं त्वां शृङ्गारो वप्रे
सक्तं गजमिव विशेषेण भूषयति । एवं चैतादृशमेव सर्वदा कुर्विति ध्यन्यते । 'द्व्यर्थैः पदैः
पिशुनयेच्च रहस्यवस्तु' इति कामशास्त्रादत्र सुरतारम्भगोष्ठीवत्कलितकरिकरक्रीड इ-
त्यर्थस्य यद्व्रीडादायित्वेनाश्लीलत्वं तन्न दूषणम् ॥
यथा न कस्यापि विज्ञानं भवति तथानेनेयं भुक्तेति काचित्कांचिदन्योक्त्या वक्ति--
लिप्तं न मुखं नाङ्गं न पक्षती न चरणाः परागेण ।
अस्पृशतेव नलिन्या विदग्धमधुपेन मधु पीतम् ॥
लिप्तमिति । परागेण वदनं न लिप्तम् । इदम
अङ्गं न। पक्षती न । चरणा न । स्पर्शमकुर्वतेव चतुर
वेद्यते । नलिन्या मधु पीतम् । नलिन्या इत्यनेन नायिकायां पद्मिनीत्वमावेद्यते । तेन च
दुर्लभत्वम् । एवं चैतस्याः सङ्गोऽपि गुप्ततयैव लब्धुं शक्य इति व्यज्यते ॥
नायको दूत वक्ति--
लग्नं जघने तस्याः शुष्यति नखलक्ष्म मानसं च मम ।
भुक्तमविशदमवेदनमिदमधिकसरागसाबा
लग्नमिति । तस्या जघने लग्नं नखचिह्नं मम मानसं च शुष्यति । मानसपदेन शु-
ष्कीभावानर्हत्वेऽपि तद्भवनेन विरहे वडवानलतुल्यत्वमावेद्यते । तेन च दुःसहत्वम् ।
शुष्की