This page has been fully proofread once and needs a second look.

नायिका सखीं वक्ति--
 
रोषेणैव मया सखि वक्रोऽपि ग्रन्थिलोऽपि कठिनोऽपि ।
ऋजुतामनीयतायं सद्यः स्वेदेन वंश इव ॥ ०० ॥
 
रोषेणेति । हे सखि, वक्रोऽपि ग्रन्थिलोऽपि कठिनोऽप्ययं नायको मया क्रोधेनैव सद्यः
ऋजुतां खेस्वेदेन वेणुरिव प्रापितः । स्वेदेन वेणोर्वक्रताद्यपगच्छतीति काष्ठर्जुता संपादन विदः॥
 
सखी नायिकां वक्ति--
 
रजनीमियमुपनेतुं पितृप्रसूः प्रथममुपतस्थे ।
रञ्जयति स्वयमिन्दुं कुनायकं दुष्टदूतीव ॥ ५०१ ॥
 
रजनीमिति । इयं पितृप्रसूः सायंसंध्या रात्रिमुपनेतुं चन्द्रसमीपं नेतुमादावुपतस्थे ।
स्वयं चन्द्रं दुष्टदूती दुष्टनायकमिव रञ्जयति । रक्तरूपवन्तम् । पक्षेऽनुरागवन्तम् ।
करोति । एवं च संध्यात्वेन जगद्वन्द्यत्वेऽप्येतादृशानुचित कार्यकारित्वम्, तत्र का वार्ता-
न्यासाम् । अतः स्वयमेव नायकानुनयो विधेय इति ध्वन्यते ॥
 
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता रकारव्रज्या ।
------------------------------------
 
लकारव्रज्या ।
 
अत्यन्तपराङ्गनालम्पटास्थिरमतिनायकासक्तां नायिकां काचिदन्योक्त्या वक्ति--
 
लग्नासि कृष्णवर्त्मनि सुस्निग्धे वर्ति हन्त दग्धासि ।
अयमखिलनयनसुभगो न भुक्तमुक्तां पुनः स्पृशति ॥ ०२ ॥
 
लग्नासीति । हे सुस्निग्धे । स्नेहवशादिति भाव उभयत्र । वर्ति, कृष्णवर्त्मनि वहीह्नौ
अथ च दुष्टमार्गशालिनि नायके लग्नासि । तत्संबन्धभागिनी संवृत्तासि । हन्त खेदे ।
दग्धासि । एवं च न विलम्ब इति भावः । अथ च दुःखभागिनी संवृत्तासि । यतोऽयं
सकलनयनस्पृहणीयः । प्रकाशवत्वात् । अथ च सौन्दर्यादिगुणशालित्वात् । एवं च ना-
यिकासौलभ्यमस्येति ध्वन्यते । भोगोत्तरपरित्यक्तां पुनर्न स्पृशति । एवं चैतत्संगतिरनु-
चितेति ध्वन्यते ॥
 
संपत्त्या गुणवत्ता दारिद्र्यात्तदभाववत्तेति कश्चिद्वक्ति--
 
लक्ष्मीः शिक्षयति गुणानमून्पुनर्दुर्गतिर्विधूनयति ।
पूर्णो भवति सुवृत्तस्तुषाररुचिरपचये वक्रः ॥ ०३ ॥
 
लक्ष्मीरिति । श्रीर्गुणानुपदिशति । अमून् पुनौंनर्दौर्भाग्यं दूरीकरोति । अत्रार्थान्तरन्यास-
माह--पूर्णमण्डलश्चन्द्रः सुवृत्तः समीचीनवर्तुलः । अथ च समीचीनाचरणवान् । अप-
चये कलाविनाशे कुटिलः । एवं च संपत्त्यर्जनमत्यन्तावश्यकम् । तदविरोधेन गुणार्जनं
विधेयमिति द्योत्यते ॥