2023-03-22 16:48:11 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
गुणवत्संगतिकरणमेवोचितमिति सखी नायिकां वक्ति--
रूपगुणहीनहार्या भवति लघुर्धूलिरनिलचपलेव ।
प्रथयति पृथुगुणनेया तरुणी तरणिरिव गरिमाणम् ॥ ४९६ ॥
रूपेति । रूपंच गुणाश्च तैर्हीनेन हायर्या तत्संगतिमती । पक्षे रूपरूपो यो गुणस्तदभाव-
वता हर्तुं योग्या । तरुणी । वायुचञ्चला धूलिरिव लघुर्भवति । पृथवो गुणा यस्य तेन
नेया । पक्षे महत्तरगुणैः । नौकेव गौरवं प्रथयति । एवं चाचेतनेऽप्येवं गतिस्तत्र का
वाच्या सचेतन इति भावः ॥
सखी नायकं वक्ति---
रागे नवे विजृम्भति विरहक्रममन्दमन्दमन्दाक्षे ।
सस्मितसलज्जमीक्षितमिदमिष्टं सिद्धमाचष्टे ॥ ४९७ ॥
रागेति । विरहक्रमेण मन्दमन्दं मन्दाक्षं ह्रीर्यत्र । एतादृशे नवे रागे । 'विजृम्भित --'
इति पाठे विरहविशेषणम् । इदं स्मितहसितलज्जासहितं विलोकनमिष्टं सिद्धं कथयति ।
एवं चाचिरमेवानया सह सङ्गस्तव भावीति ध्वन्यते ॥
कुपितनायिकां दूती वक्ति--
रोषोऽपि रसवतीनां न कर्कशो वा चिरानुबन्धी वा ।
वर्षाणामुपलोऽपि हि सुस्निग्धः क्षणिककल्पश्च ॥ ४९८ ॥
रोषोऽपीति । रसः शृङ्गारादिः । पक्षे जलम् । तद्वतीनाम् । एवं चान्यासामन्या-
दृशी गतिरिति भावः । रोषोऽपि । अपिना कर्कशत्वायौचित्यमावेद्यते । कठिनो वा न ।
चिरकालावस्थायी वा न । अर्थान्तरन्यासमाह - --वर्षाणां पाषाणोऽपि । करकेति यावत् ।
अत्यन्तकोमलः स्वल्पकालावस्थायी च । एवं चैतादृशातिशयितकोपकरणे रसवत्ताहा-
निरेव भवित्रीतीति ध्वन्यते । तेन चैनं परिहृत्य प्रसन्नां भवेति ॥
'येनैतादृशक्लेशादिकं भवति तदपेक्षाकरणमनुचितम्' इति वादिनीं सखीं नायिकां
वक्ति--
रोदनमेतद्धन्यं सखि किं बहु मृत्युरपि ममानर्धःघः ।
स्वप्नेनेव हि विहितो नयनमनोहारिणा तेन ॥ ४९९ ॥
रोदनमिति । हे सखि, एतद्रोदनं सम्यक् । किं बहु । वक्तव्यमित्यर्थः । मरणमपि
मम समीचीनम् । नयनमनःस्वाधीनतासंपादकेन । पक्षे नयनमनोव्यापाराभावसंपाद-
केन । स्वप्नेनेव तेन नायकेवन विहितः । लिङ्गविपरिणामेन रोदनेऽप्येतदन्वेति । रोदना-
दिकं स्वप्ने सम्यगिति स्वप्नविवेचकाः । स्वप्ने केवलमनोव्यापारस्य सत्त्वेऽपि नयनव्यापार-
विशिष्टस्य तस्याभावान्नात्र दोषः ॥
रूपगुणहीनहार्या भवति लघुर्धूलिरनिलचपलेव ।
प्रथयति पृथुगुणनेया तरुणी तरणिरिव गरिमाणम् ॥ ४९६ ॥
रूपेति । रूपंच गुणाश्च तैर्हीनेन हा
वता हर्तुं योग्या । तरुणी । वायुचञ्चला धूलिरिव लघुर्भवति । पृथवो गुणा यस्य तेन
नेया । पक्षे महत्तरगुणैः । नौकेव गौरवं प्रथयति । एवं चाचेतनेऽप्येवं गतिस्तत्र का
वाच्या सचेतन इति भावः ॥
सखी नायकं वक्ति---
रागे नवे विजृम्भति विरहक्रममन्दमन्दमन्दाक्षे ।
सस्मितसलज्जमीक्षितमिदमिष्टं सिद्धमाचष्टे ॥ ४९७ ॥
रागेति । विरहक्रमेण मन्दमन्दं मन्दाक्षं ह्रीर्यत्र । एतादृशे नवे रागे । 'विजृम्भित
इति पाठे विरहविशेषणम् । इदं स्मितहसितलज्जासहितं विलोकनमिष्टं सिद्धं कथयति ।
एवं चाचिरमेवानया सह सङ्गस्तव भावीति ध्वन्यते ॥
कुपितनायिकां दूती वक्ति--
रोषोऽपि रसवतीनां न कर्कशो वा चिरानुबन्धी वा ।
वर्षाणामुपलोऽपि हि सुस्निग्धः क्षणिककल्पश्च ॥ ४९८ ॥
रोषोऽपीति । रसः शृङ्गारादिः । पक्षे जलम् । तद्वतीनाम् । एवं चान्यासामन्या-
दृशी गतिरिति भावः । रोषोऽपि । अपिना कर्कशत्वायौचित्यमावेद्यते । कठिनो वा न ।
चिरकालावस्थायी वा न । अर्थान्तरन्यासमाह
अत्यन्तकोमलः स्वल्पकालावस्थायी च । एवं चैतादृशातिशयितकोपकरणे रसवत्ताहा-
निरेव भवि
'येनैतादृशक्लेशादिकं भवति तदपेक्षाकरणमनुचितम्' इति वादिनीं सखीं नायिकां
वक्ति--
रोदनमेतद्धन्यं सखि किं बहु मृत्युरपि ममानर्
स्वप्नेनेव हि विहितो नयनमनोहारिणा तेन ॥ ४९९ ॥
रोदनमिति । हे सखि, एतद्रोदनं सम्यक् । किं बहु । वक्तव्यमित्यर्थः । मरणमपि
मम समीचीनम् । नयनमनःस्वाधीनतासंपादकेन । पक्षे नयनमनोव्यापाराभावसंपाद-
केन । स्वप्नेनेव तेन नायके