This page has not been fully proofread.

आर्यासप्तशती ।
 
गुणवत्संगतिकरणमेवोचितमिति सखी नायिकां वक्ति -
--
 
रूपगुणहीनहार्या भवति लघुर्धूलिरनिलचपलेव ।
 

प्रथयति पृथुगुणनेया तरुणी तरणिरिव गरिमाणम् ॥ ४९६ ॥

 
रूपेति । रूपंच गुणाश्च तैहीनेन हाय तत्संगतिमती । पक्षे रूपरूपो यो गुणस्तदभाव-

वता हर्तुं योग्या । तरुणी । वायुचञ्चला धूलिरिव लघुर्भवति । पृथवो गुणा यस्य तेन

नेया । पक्षे महत्तरगुणैः । नौकेव गौरवं प्रथयति । एवं चाचेतनेऽप्येवं गतिस्तत्र का

वाच्या सचेतन इति भावः ॥
 

 
सखी नायकं वक्ति-
-
 
--
 
रागे नवे विजृम्भति विरहक्रममन्दमन्दमन्दाक्षे ।
 

सस्मितसलज्जमीक्षितमिदमिष्टं सिद्धमाचष्टे ॥ ४९७ ॥
 

 
रागेति । विरहक्रमेण मन्दमन्दं मन्दाक्षं ह्रीर्यत्र । एतादृशे नवे रागे । 'विजृम्भित '

इति पाठे विरहविशेषणम् । इदं स्मितहसितलजासहितं विलोकनमिष्टं सिद्धं कथयति ।

एवं चाचिरमेवानया सह सङ्गस्तव भावीति ध्वन्यते ॥
 

 
कुपितनायिकां दूती वक्ति -
 
--
 
रोषोऽपि रसवतीनां न कर्कशो वा चिरानुबन्धी वा ।

वर्षाणामुपलोऽपि हि सुस्निग्धः क्षणिककल्पश्च ॥ ४९८ ॥

 
रोषोऽपीति । रसः शृङ्गारादिः । पक्षे जलम् । तद्वतीनाम् । एवं चान्यासामन्या-

दृशी गतिरिति भावः । रोषोऽपि । अपिना कर्कशत्वायौचित्यमावेद्यते । कठिनो वा न ।

चिरकालावस्थायी वा न । अर्थान्तरन्यासमाह - वर्षाणां पाषाणोऽपि । करकेति यावत् ।

अत्यन्तकोमलः स्वल्पकालावस्थायी च । एवं चैतादृशातिशयितकोपकरणे रसवत्ताहा-

निरेव भवित्रीति ध्वन्यते । तेन चैनं परिहृत्य प्रसन्नां भवेति ॥
 

 
'येनैतादृशक्लेशादिकं भवति तदपेक्षाकरणमनुचितम्' इति वादिनीं सखीं नायिकां
 
वक्ति-

वक्ति--
 
रोदनमेतद्धन्यं सखि किं बहु मृत्युरपि ममानर्धः ।
 

स्वप्नेनेव हि विहितो नयनमनोहारिणा तेन ॥ ४९९ ॥
 

 
रोदनमिति । हे सखि, एतद्रोदनं सम्यक् । किं बहु । वक्तव्यमित्यर्थः । मरणमपि

मम समीचीनम् । नयनमनःस्वाधीनतासंपादकेन । पक्षे नयनमनोव्यापाराभावसंपाद-

केन । स्वप्नेनेव तेन नायकेव विहितः । लिङ्गविपरिणामेन रोदनेऽप्येतदन्वेति । रोदना-

दिकं स्वप्ने सम्यगिति स्वप्नविवेचकाः । स्वप्ने केवलमनोव्यापारस्य सत्त्वेऽपि नयनव्यापार-

विशिष्टस्य तस्याभावान्नात्र दोषः ॥