This page has not been fully proofread.

काव्यमाला ।
 
कश्चित्कंचिद्वक्ति–
 

 
रचिते निकुञ्जपत्रैर्भिक्षुकपात्रे ददाति सावज्ञम् ।

पर्युषितमपि सुतीक्ष्णश्वासकदुष्णं वधूरन्नम् ॥ ४९३ ॥
 

 
रचित इति । निकुञ्जसंबन्धिपत्रैः संपादिते भिक्षुकस्य पात्रेऽवज्ञासहितं यथा स्या-

त्तथा वधूः- षर्युषितमप्यन्नमत्यन्ततीक्ष्णा ये श्वासास्तैरीषदुष्णं ददाति । संकेतनिकेत-

निकुञ्जपत्रच्छेदनेन संकेतस्थानविघटकतया द्वेषवत्वादवज्ञा । भिक्षुकत्वादन्नदानम् । स्था-

नविघटनदुःखवशाच्छ्वासेषूष्णता । यद्वा संकेते मया गला परावृत्तमिति ज्ञापनायानी

तनिकुञ्जपत्रपात्रमवलोक्य दुःखवशाच्छासेषूष्णता । लोकगोपनाय चावज्ञाकरणं पर्यु-

षितान्नदानं च ॥
 

 
सखी नायिकां वक्ति-
-
 
रक्षति न खलु निजस्थितिमलघुः स्थापयति नायकः स यथा ।

तिष्ठति तथैव तद्गुणविद्धेयं हारयष्टिरिव ॥ ४९४ ॥
 

 
रक्षतीति । हे सखि, योऽलघुः श्रेष्ठः । पक्षे महान् । निजस्थितिं न रक्षति । चा-

चल्यं न त्यजतीत्यर्थः । स नायकः कान्तः । पक्षे हारमध्यमणिः । यथा स्थापयति तथैव

तस्या गुणैश्चातुर्यादिभिः । पक्षे गुणः सूत्रम् । तैर्विद्धा तत्कृतासक्तिमती । पक्षे यथाश्रु-

तम् । इयं त्वत्प्रतिवेशिनीहारयष्टिरिव तिष्ठति । एवं च स न स्वकीयचाञ्चल्यादिदुःशीलं

परित्यजति । इयं तु तच्चातुर्याद्यासक्ता तन्मनस्कतयैव कालमतिवाहयतीति भावः

एवं चैतादृशावस्थितिस्तव नोचितेति नायिकां प्रत्यावेद्यते । यद्वा यथा हारमध्यमणे-

चाञ्चल्येऽपि तद्गुणविद्धेयं हारलता न चाञ्चल्यं विधत्ते तथा त्वया तद्गुणमात्रावलोकना-

दिना तच्चाञ्चल्यमगणयित्वा निश्चलतया स्थेयमिति व्यज्यत इत्यर्थः । यद्वा सखी सखीं

चक्ति – हे सखि, अलघुः श्रेष्ठेयं नायिका निजस्थितिं न रक्षति स्वमर्यादां न विचारयति ।

यथा नायकः स्थापयति तथैव तच्चातुर्यागुणविद्धा हारयष्टिरिव तिष्ठति । एवं च खो-

चितव्यवहारमियं परित्यज्य केवलं तदधीना जातेति भावः ॥
 

 
सखी नायिकां वक्ति-
-
 
राजसि कृशाङ्गि मङ्गलकलशी सहकारपल्लवेनेव ।

तेनैव चुम्बितमुखी प्रथमाविर्भूतरागेण ॥ ४९९ ॥
 

 
राजसीति । हे कृशाङ्गि, प्रथमं कौमारप्रभृति संजातप्रीतिमता । पक्षे रागो लौहि-

त्यम् । तेनैव । नायकेनेति भावः । चुम्बितवदना रसालपल्लवेन मङ्गलकलशीव राजसि ।

एवं च नान्यत्र मनो बन्धनीयमिति ध्वन्यते । यद्वा तेनैव । निकटस्थितेनैवानेनेति भावः ।

राजसि राजिष्यसि । चिरकालीनैतत्संगतिर्नोचिता । किं तु नवीनानुरागवत्संगतिरत्य-

न्तोचितेति व्यंज्यत इति वा दूती नायिकां वक्ति ॥
 
Sh Gargeshwari Digital Foundation