This page has not been fully proofread.

आर्यासप्तशती ।
 
नायिकां विनावस्थितिर्न सुखदेति कश्चिद्वक्ति-
-
 
रतिकलहकुपितकान्ताकरचिकुराकर्षमुदितगृहनाथम् ।

भवति भवनं तदन्यत्प्राग्वंशः पर्णशाला वा ॥ ४८९ ॥
 

 
रतीति । रतिकलहे कुपिता कान्ता तया कराभ्यां यत्केशाकर्षणं तेन संतुष्टो गृहनाथो

यत्र । यद्वा कान्ताहस्तात्केशाकर्षणं यत्र । तद्वनादिकमपि भवनम् । तद्भिन्नम् । महत्त-

रप्रासादादिकमित्यर्थः । प्राग्वंशः पत्नीशाला । 'प्राग्वंशः प्राग्घविर्गेहात्' इत्यमरः ।

पर्णशाला वा । 'पर्णशालोटजोऽस्त्रियाम्' इत्यमरः ॥
 

 
नायिका वैद्यं वक्ति-
-
 
रोगी राजायत इति जनवादं सत्यमद्य कलयामि ।

आरोग्यपूर्वकं त्वयि तल्पप्रान्तागते सुभग ॥ ४९० ॥
 

 
रोगीति । हे सुभग, त्वयि शयनीयसविधागमनवति सति रोगवान्राजवदाचरती ति

राजायत इति लोकप्रवादमारोग्यपूर्वकं सत्यं मिथ्यात्वशून्यमद्य कलयामि । एवं चा•

तिमहत्तरभाग्यशालिन्यहं त्वद्दर्शनेनाद्य संवृत्तेति भावः । एवं च मन्मथदुःखरूपरोगं

दूरीकृत्यानन्दविशेषभागिन्यहं त्वया विधेयेति द्योत्यते ॥

 
नायिकां प्रति कश्चिद्वक्ति-
-
 
रुद्धस्वरसप्रसरस्यालिभिरग्रे नतं प्रियं प्रति मे ।
 

स्रोतस इव निम्नं प्रति रागस्य द्विगुण आवेगः ॥ ४९१ ॥

 
रुद्धेति । सखीभिः प्रतिषिद्धः खरसस्य स्वाच्छन्द्यस्य प्रसरो यस्य । पक्षे रसो जलम् ।

मम प्रीतेः । अग्रे नतम् । प्रणिपातार्थमिति भावः । प्रियं प्रति निम्नं प्रति नीचदेशं प्रति

स्रोतस इव । 'स्रोतोऽम्बुसरणं स्वतः' इत्यमरः । द्विगुण आवेग आधिक्यम् । पक्षे आ

समन्ताद्वेगः । एवं च निरुद्धस्य जलस्य यथाधिकं प्रवाहः प्रचलति तथा सखीभिनि-

षिद्धाया मम प्रियं प्रति प्रेमाधिक्यं जायत इति भावः । एवं च प्रियं प्रति प्रेमनिरोधो

मम दुर्घट इति ध्वन्यते । तेन च सख्युपदेशोल्लङ्घने न ममापराध इति ॥

 
काचित्कांचिद्वक्ति-
-
 
रूपमिदं कान्तिरसावयमुत्कर्षः सुवर्णरचनेयम् ।
 

दुर्गतमिलिता ललिते भ्रमसि प्रतिमन्दिरद्वारम् ॥ ४९२ ॥
 

 
रूपमिति । हे ललिते सुन्दरि, इदं रूपम् । असौ कान्तिः । अयमुत्कर्षः । इयं सुष्टु

चर्णरचना । एवं सति दरिद्रसहचारिणी । अतः प्रतिगृहद्वारं भ्रमसि । एवं चैतादृशरूप-

- शालित्वे दरिद्रसंगतिसंपादनमनुचितम् । उचितं भाग्यवत्संगतिसंपादन मिति ध्वन्यते ।

यद्वा भिक्षुहस्तगतप्रतिमोद्देशव्याजेन काचित्कांचिद्वक्ति ॥
 
विश्पादननिति पश्यते ।
 
आ० स० १५