This page has not been fully proofread.

काव्यमाला ।
 
यत्रेति । यत्र यस्मिन्नार्जवेन सरलतया लघिमा लाघवं तन्यते । यत्र वऋता गुरुलं

तनुते । छन्दःशास्त्र इवास्मिल्लोके हे सखे, सरलः किमसि । छन्दःशास्त्रे लघुर्लेखाकारो

गुरुर्वक्राकारो लिख्यत इति संप्रदायः ॥
 

 
कश्चित्कस्यचिदधिकारपदं निन्दति-
-
 
यन्नोपकारकं यन्न भूषणं यत्प्रकोपमातनुते ।
 

गुरुणापि तेन कार्य पदेन किं श्लीपदेनेव ॥ ४८५ ॥
 

 
यन्नेति । यदुपकारकारकं न । यद्भूषणं न । यत्प्रकृष्टकोपं विस्तारयति । गुरुणापि

पदेनाधिकारेण श्लीपदेनेव रोगविशेषवच्चरणेनेव किं कार्यम् । न किंचित्फलमिति

भावः । एवं च तदेवाधिकारपदं यदुपकारादिसंपादकमिति भावः ॥

 
कश्चित्कंचिदन्योक्त्या वक्ति-
-
 
यूथपते तव कश्चिन्न हि मानस्यानुरूप इह विटपी ।
 

प्रेरय दिनं निदाघद्राघीयः क खलु ते छाया ॥ ४८६ ॥

 
यूथेति । हे यूथपते । एवं चान्येषां पालकस्त्वमसीति द्योत्यते । तव हि निश्चितं

मानस्य परिमाणविशेषस्य । पक्षे प्रतिष्ठायाः । अनुरूपो योग्यः । कचिद्विटपी वृक्षो न ।

निदाघेनातिदीर्घ दिनं गमय । निश्चयेन तव छाया क्व । एवं च कुटुम्बपोषकस्य

भवतो न क्वचिदाश्रयः । समयोऽयं कठिनतरः । सोऽयं यथातथातिवाहनीय इति

द्योयते ॥
 

 
दैवात्संपद्विहीनोऽप्ययमन्येषामुपकारक इति कश्चित्कंचिदन्योक्त्या वक्ति
--
 
यद्यपि चन्दनविटपी फलपुष्पविवर्जितः कृतो विधिना ।

निजवपुषैव तथापि हि स हरति संतापमपरेषाम् ॥ ४८७ ॥
 

 

 
यद्यपीति । यद्यपि चन्दनशाखी दैवेन ब्रह्मणा वा फलपुष्परहितः कृतस्तथापि स्व-

शरीरमात्रेणान्येषां संतापं दूरं करोति । एवं चैतादृशो न कश्चिदन्य इति ध्वन्यते ।

अत्र पूर्वत्र च यद्यपिरपीति पदातिरिक्तपददानमुचितमित्याभाति ॥
 

 
इत्यनन्तपण्डितकृतगोवर्धन सप्तशतीव्यङ्गयार्थदीपनया समेता यकारव्रज्या ।
 

-----------------------------------
 
रक्रारव्रज्या ।
 

 
नायकगुणोत्कर्षेण नायिकाया अत्यन्तमुत्कर्ष इति काचित्कांचिद्वक्ति-
-
 
राज्याभिषेकसलिलक्षालितमौलेः कथासु कृष्णस्य ।
 

गर्वभरमन्थराक्षी पश्यति पदपङ्कजं राधा ॥ ४८८ ॥

 
राज्येति। राज्याभिषेकजलक्षालितमस्तकस्य कृष्णस्य वार्तासु सकलोत्कृष्ट गुणवानि-

त्यादिकासु । सतीष्विति शेषः । गर्वाधिकतानिश्चलनेत्रा राधा चरणकमलम् । स्वीयमिति

भावः । पश्यति । एतादृशोऽध्ययं सर्वदा मत्प्रणतिप्रवण एवास्त इति धियेति भावः ॥
Si Gargeshwi Dignal Foundation