This page has not been fully proofread.

आर्यासप्तशती ।
 
१६३
 
उत्तरदिक्संस्थायामित्यर्थः । किमेतावतेत्यत आह - मध्यसंस्थः सन्नुभयत्र समानपक्ष-

पाती । पक्षे मध्यदेशस्थः । वेलयोर्जलधिरिव सदृशं नाचरसि । डलयोरैक्याजडधिरि-

वेत्यनेन तादृशविषमाचरणमज्ञस्योचितं न तव विज्ञस्येति ध्वन्यते । 'योऽविकल्पमिद-

मर्थमण्डलं पश्यतीश निखिलं भवद्वपुः । आत्मपक्षपरिपूरिते जगत्यस्य नित्यमुखिनः

कुतो भयम् ॥' इत्यत्रेवात्रेदम्शब्दस्य तच्छब्दार्थकता ॥
 

 
नायं नायकस्त्वामुपभोगं विना त्यक्ष्यतीति काचित्कांचिद्वक्ति-
-
 
युगपज्जघनोरःस्तनपिधानमधुरे त्रपास्मितार्द्रमुखि ।
 

लोलाक्षि नैष पवनो विरमति तव वसनपरिवर्ती ॥ ४८१ ॥

 
युगपदिति । एककालं जघनोरः स्तनस्य यदाच्छादनं तेन मधुरे सुन्दरे । लजास्मि-

ताभ्यां स्निग्धवदने । आर्द्रपदेन स्मिते सुधारूपत्वमावेद्यते । लोलाक्षि, तव वस्त्रपरि-

वर्तनकारी एष पवनो न विरमति । एवं च जघनाद्याच्छादनाद्यनर्थकम् । अतस्तत्त्यक्त्वा

यथेच्छमनेन सह रमस्वेति ध्वन्यते । 'विधुरे' इति पाठे रहिते इत्यर्थः । यथाश्रुतमेवेद-

मिति ऋजवः ॥
 

 
अपकारकाणामपि सति समये शरणमयमेवेति कश्चित्कंचिदन्योक्त्या वक्ति-
-
 
यद्यपि बद्धः शैलैर्यद्यपि गिरिमथनमुषितसर्वस्वः ।
 

तदपि परभीतभूधररक्षायां दीक्षितो जलधिः ॥ ४८२ ॥
 

 
यद्यपीति । यद्यपि पर्वतैर्बद्धः । यद्यपि पर्वतकरणकमन्थनेनापहृतसर्वस्वः । तथापि

पर इन्द्रस्ततो भीता ये पर्वतास्तद्रक्षणे जलधिर्दीक्षितः । कृतनियम इत्यर्थः । जलधि-

रित्यनेन निकटवर्तिसमीचीनाभावेऽपि स्वत एवैतादृशाचरणकारितयातिमहत्तरत्वमावे-

द्यते । अत्रानवीकरणमनुचितमित्याभाति ॥
 

 
यत्र यादृशेन तेन त्वं दृष्टासि तत्र तादृशेनैव तेनाद्यापि स्थीयत इति दूती नायिकां
वक्ति -
 

वक्ति--
 
यस्यां दिशि यस्य तरोर्यामेत्य शिखां यथोन्नतग्रीवम् ।

दृष्टा सुधांशुलेखा निशां चकोरस्तथा नयति ॥ ४८३ ॥
 

 
यस्यामिति । यस्यां दिशि यस्य वृक्षस्य यां शिखामागत्योन्नतग्रीवं यथा चन्द्रलेखा

दृष्टा तथा तेनैव प्रकारेण चकोरो निशामतिवाहयति । सुधांशुलेखे त्यने नाह्लादकत्वमावे.

द्यते । चकोर इत्यनेन तदेकाधीनजीवनवत्वं द्योत्यते । एवं चैतादृशस्यास्योपेक्षाकरण

मनुचितं तवेति ध्वन्यते ॥
 

 

 
सरलतया न स्थेयमिति कश्चित्कंचिद्वक्ति-
-
 
यत्रार्जवेन लघुता गरिमाणं यत्र वक्रता तनुते ॥

छन्दःशास्त्र इवास्मिंल्लोके सरलः सखे किमसि ॥ ४८४ ॥
 
SDF
 
Sri Gangeshwari Digital Foundation