2023-03-22 16:09:10 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
यदवधीति । यत्प्रभृति शणपङ्क्तिविकसितकुसुमसमूहा संजातमात्रा तत्प्रभृति पल्लीप-
तेस्तनया पीतं यद्वस्त्रं तत्प्रियं यस्या एतादृशी संजाता । एवं च शणश्रेणिपीतकुसुमसमूहे
पीतवसनतयान्यैरज्ञेयतया यथेच्छं विहर्तुकामेयं संवृत्तेति ध्वन्यते ॥
सखी नायिकां वक्ति--
यमुनातरङ्गतरलं न कुवलयं कुसुमलावि तव सुलभम् ।
यदि सौरभानुसारी झंकारी भ्रमति न भ्रमरः ॥ ४७७ ॥
यमुनेति । हे कुसुमावचयकारिणि, यमुनायास्तरङ्गैश्चञ्चलं कुवलयं तव न सुलभम् ।
यदि सौगन्ध्यानुसारी झंकारकारी भ्रमरो न भ्रमति । एवं च चपलतरत्वदीयनयनप्रति-
बिम्बबाहुल्याद्विशिष्य कुवलयज्ञानाभावे न तद्ब्रहणं तव वृत्तमिति भावः । एवं च नायि-
कायां सौन्दयतिशयो द्योत्यते ॥
एषामत्यन्तलालनं स्वयं क्रियते, परं तु ये नखस्वसुखदुःखज्ञातारस्तेऽत्यन्तं जडा इति
कश्चित्कंचिद्वक्ति--
ये शिरसि विनिहिता अपि भवन्ति न सखे समानसुखदुःखाः ।
चिकुरा इव ते बाला एव जडाः पाण्डुभावेऽपि ॥ ४७८ ॥
ये शिरसीति । हे सखे, मस्तके निहिता अपि ये समानसुखदुःखा न भवन्ति, ते पु-
रुषाः केशा इव जडाः पाण्डुरभावेऽपि वार्द्धकेऽपि बालका एव । एवं च येऽत्यन्तं ला-
लितास्ते यदि नखस्वसुखदुःखाभिज्ञास्तदा तेऽत्यन्तं मूढा एव । अतो न तदसत्कर्तव्यतया
दुःखं मन्तव्यमिति व्यज्यते ॥
एतत्कार्यायोग्यस्याप्यस्य प्रभुणैतत्कार्ययं दत्तमिति कश्चित्कंचिद्वक्ति--
यन्नियतनिर्गुणं यन्न वंशजं यच्च नित्यनिर्वाणम् ।
किं कुर्मस्तन्निहितं धनुःपदे देवराजेन ॥ ४७९ ॥
यन्नियतेति । यन्नियतं गुणेन मौर्व्या । पक्षे चातुर्यादिना । शून्यम् । यन्न वंशजम् ।
वंशो वेणुः । पक्षेऽन्वयः । यच्चेत्यपरं नित्यविनाशि । पक्षे नित्यं निर्वाणं विनाशो यस्मात् ।
तद्देवराजेनेन्द्रेण । देवराजपदेनानिवारणीयत्वमावेद्यते । कोदण्डस्थाने स्थापितम् । तत्र
वयं किं कुर्मः । एवं चैतादृशस्याधिकारदानानौचित्येऽपि प्रभुणाखस्वमत्या कृतत्वान्ना-
स्माकमपराध इति ध्वन्यते ॥
एकस्यामासक्तमन्यस्यामनासक्तं नायकं काचिद्वक्ति--
या दक्षिणा त्वमस्यामदक्षिणो दक्षिणस्त्वमितरस्याम् ।
जलधिरिव मध्यसंस्थो न वेलयोः सदृशमाचरसि ॥ ४८० ॥
या दक्षिणेति । या दक्षिणानुकूला । त्वयीति भावः । अस्यां त्वमदक्षिणोऽननुकूलः ।
पक्षे दक्षिणदिक्संस्थायां दक्षिणदिक्संस्थो नेत्यर्थः । तदितरस्यां दक्षिणोऽनुकूलः । पक्ष
तेस्तनया पीतं यद्वस्त्रं तत्प्रियं यस्या एतादृशी संजाता । एवं च शणश्रेणिपीतकुसुमसमूहे
पीतवसनतयान्यैरज्ञेयतया यथेच्छं विहर्तुकामेयं संवृत्तेति ध्वन्यते ॥
सखी नायिकां वक्ति--
यमुनातरङ्गतरलं न कुवलयं कुसुमलावि तव सुलभम् ।
यदि सौरभानुसारी झंकारी भ्रमति न भ्रमरः ॥ ४७७ ॥
यमुनेति । हे कुसुमावचयकारिणि, यमुनायास्तरङ्गैश्चञ्चलं कुवलयं तव न सुलभम् ।
यदि सौगन्ध्यानुसारी झंकारकारी भ्रमरो न भ्रमति । एवं च चपलतरत्वदीयनयनप्रति-
बिम्बबाहुल्याद्विशिष्य कुवलयज्ञानाभावे न तद्ब्रहणं तव वृत्तमिति भावः । एवं च नायि-
कायां सौन्दयतिशयो द्योत्यते ॥
एषामत्यन्तलालनं स्वयं क्रियते, परं तु ये न
कश्चित्कंचिद्वक्ति--
ये शिरसि विनिहिता अपि भवन्ति न सखे समानसुखदुःखाः ।
चिकुरा इव ते बाला एव जडाः पाण्डुभावेऽपि ॥ ४७८ ॥
ये शिरसीति । हे सखे, मस्तके निहिता अपि ये समानसुखदुःखा न भवन्ति, ते पु-
रुषाः केशा इव जडाः पाण्डुरभावेऽपि वार्द्धकेऽपि बालका एव । एवं च येऽत्यन्तं ला-
लितास्ते यदि न
दुःखं मन्तव्यमिति व्यज्यते ॥
एतत्कार्यायोग्यस्याप्यस्य प्रभुणैतत्कार्
यन्नियतनिर्गुणं यन्न वंशजं यच्च नित्यनिर्वाणम् ।
किं कुर्मस्तन्निहितं धनुःपदे देवराजेन ॥ ४७९ ॥
यन्नियतेति । यन्नियतं गुणेन मौर्व्या । पक्षे चातुर्यादिना । शून्यम् । यन्न वंशजम् ।
वंशो वेणुः । पक्षेऽन्वयः । यच्चेत्यपरं नित्यविनाशि । पक्षे नित्यं निर्वाणं विनाशो यस्मात् ।
तद्देवराजेनेन्द्रेण । देवराजपदेनानिवारणीयत्वमावेद्यते । कोदण्डस्थाने स्थापितम् । तत्र
वयं किं कुर्मः । एवं चैतादृशस्याधिकारदानानौचित्येऽपि प्रभुणा