This page has not been fully proofread.

१६२
 
काव्यमाला ।
 
यदवधीति । यत्प्रभृति शणपतिविकसितकुसुमसमूहा
 
संजातमात्रा तत्प्रभृति पल्लीप-
तेस्तनया पीतं यद्वस्त्रं तत्प्रियं यस्या एतादृशी संजाता । एवं चशणश्रेणिपीतकुसुमसमूहे
पीतवसनतयान्यैरज्ञेयतया यथेच्छं विहर्तुकामेयं संवृत्तेति ध्वन्यते ॥
सखी नायिकां वक्ति–
 
यमुनातरङ्गतरलं न कुवलयं कुसुमलावि तव सुलभम् ।
यदि सौरभानुसारी झंकारी भ्रमति न भ्रमरः ॥ ४७७ ॥
यमुनेति । हे कुसुमावचयकारिणि, यमुनायास्तरङ्गैश्चञ्चलं कुवलयं तव न सुलभम् ।
यदि सौगन्ध्यानुसारी झंकारकारी भ्रमरो न भ्रमति । एवं च चपलतरत्वदीयनयनप्रति-
बिम्बबाहुल्याद्विशिष्य कुवलयज्ञानाभावे न तद्ब्रहणं तव वृत्तमिति भावः । एवं च नायि-
कायां सौन्दयतिशयो द्योत्यते ॥
 
एषामत्यन्तलालनं स्वयं क्रियते, परं तु ये न खसुखदुःखज्ञातारस्तेऽत्यन्तं जडा इति
कश्चित्कंचिद्वक्ति-
ये शिरसि विनिहिता अपि भवन्ति न सखे समानसुखदुःखाः ।
चिकुरा इव ते बाला एव जडाः पाण्डुभावेऽपि ॥ ४७८ ॥
 
-
 
ये शिरसीति । हे सखे, मस्तके निहिता अपि ये समानसुखदुःखा न भवन्ति, ते पु-
रुषाः केशा इव जडाः पाण्डुरभावेऽपि वार्द्धकेऽपि बालका एव । एवं च येऽत्यन्तं ला-
लितास्ते यदि न खसुखदुःखाभिज्ञास्तदा तेऽत्यन्तं मूढा एव । अतो न तदसत्कर्तव्यतया
दुःखं मन्तव्यमिति व्यज्यते ॥
 
एतत्कार्यायोग्यस्याप्यस्य प्रभुणैतत्कार्य दत्तमिति कश्चित्कंचिद्वक्ति–
यन्नियतनिर्गुणं यन्न वंशजं यच्च नित्यनिर्वाणम् ।
 
किं कुर्मस्तन्निहितं धनुःपदे देवराजेन ॥ ४७९ ॥
 
यन्नियतेति । यन्नियतं गुणेन मौर्व्या । पक्षे चातुर्यादिना । शून्यम् । यन्न वंशजम् ।
वंशो वेणुः । पक्षेऽन्वयः । यच्चेत्यपरं नित्यविनाशि । पक्षे नित्यं निर्वाणं विनाशो यस्मात् ।
तद्देवराजेनेन्द्रेण । देवराजपदेनानिवारणीयत्वमावेद्यते । कोदण्डस्थाने स्थापितम् । तत्र
वयं किं कुर्मः । एवं चैतादृशस्याधिकारदानानौचित्येऽपि प्रभुणा खमत्या कृतत्वान्ना-
स्माकमपराध इति ध्वन्यते ॥
 
एकस्यामासक्तमन्यस्यामनासक्तं नायकं काचिद्वक्ति-
या दक्षिणा त्वमस्यामदक्षिणो दक्षिणस्त्वमितरस्याम् ।
 
जलधिरिव मध्यसंस्थो न वेलयोः सदृशमाचरसि ॥ ४८० ॥ -
या दक्षिणेति । या दक्षिणानुकूला । त्वयीति भावः । अस्यां त्वमदक्षिणोऽननुकूलः ।
पक्षे दक्षिणदिक्संस्थायां दक्षिणदिक्संस्थो नेत्यर्थः । तदितरस्यां दक्षिणोऽनुकूलः । पक्ष
 
Sri Gargeshwari Digital Foundation