2023-03-13 16:00:39 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
समीचीनवस्तुग्राहकत्वादिति भावः । तं कपटशून्यत्वेन प्रसिद्धं कपटकैटभीरूपं हरिमपि
वन्दे । कपटाज्ञानेsपि कपटाकरदैत्यवञ्चनानिपुणकपटरूपधारणादिति भावः । यैरसु-
रैर्यस्याः कैटभ्या लक्ष्म्या अधरमधुनि लुब्धैः । मधुपदमुन्मादजनकतां व्यनक्ति । पी-
यूषमपि । एवं च परित्यागानर्हत्वेऽपि तत्करणेन कैटभीरूपे विशेषशालित्वं ध्वन्यते ॥
तल्पीकृताहिरगणितगरुडो हाराभिहतविधिर्जयति ।
फणशतपीतश्वासो रागान्धायाः श्रियः केलिः ॥ २४ ॥
तल्पीति । तल्पीकृताहिः । एवं च सर्पबाधाया अप्यगणनेन रागातिशयो व्यज्यते ।
अगणितगरुडः । एवं च सर्वत्र गमनयोग्यत्वेन पक्षित्वेन विवेकशून्यतया वान्यत्रैतत्कथ-
नयोग्यत्वेऽप्येतदगणनयापि स एव द्योत्यते । हाराभिहतविधिः । हारस्य नाभिसंबन्धा-
दिति भावः । आलिङ्गनान्तरभूतस्य त्यागार्हत्वेऽपि तदुपर्येव प्रक्षेपेण केलिज्ञानसंपादनेन
लज्जाशून्यत्वेन स एव द्योत्यते । यद्वा कथमद्यापि नापसरतीति क्रोधान्निकटवर्तिहा-
राभिहननेन हारापायभीतिशून्यत्वेन, अयं च हननक्रोधात्कुत्र कुत्र न वदिष्यतीति
ज्ञानहीनतया स एवावेद्यते । शतसंख्याहिफणपीतश्वासः । एवं च संख्यायाः पाना-
न्वयो न संभवतीति दूषणमपास्तम् । एवं च मरणभीतिशून्यत्वेन स एव ध्वन्यते । एवं-
विधो रागान्धायाः केलिः । एवं चान्याभिरङ्गनाभिर्यद्रागप्रकटनं क्रियते तन्मिथ्येति
भावः । जयति । एतादृशप्रतिबन्धकसमूहेऽपि जायमानत्वादिति भावः । अत्र तल्पी-
कृताहिरित्यादिना व्यञ्जनया रागातिशयप्रतिपादनाद्रागान्धाया इत्यस्य न तथा प्रयोजन-
मित्याभाति ॥
स्मेराननेन हरिणा सस्पृहमाकारवेदिनाकलितम् ।
जयति पुरुषायितायाः कमलायाः कैटभीध्यानम् ॥ २५ ॥
स्मेरेति । स्मेरं किंचिद्धास्यवत् । सुखविशेषाविर्भावादिति भावः । यदाननम् । अ-
र्थाल्लक्ष्म्याः । तेन कृत्वाकारवेदिना स्मेराननरूपज्ञापकज्ञानवता हरिणाकलितमनुमितम् ।
स्मेराननेनेति हरिणेत्यस्यापि विशेषणम् । विपरीतरतकारिण्याः श्रियः सस्पृहम् । एवं
च स्वस्यापि सुन्दरत्वेऽपि तद्विषयस्पृहावत्त्वेनानिर्वचनीयरूपशालित्वं कैटभ्यां व्यज्यते ।
कैटभीध्यानम् । एवं च स्त्रियोऽपि स्त्रीध्यानेनाद्भुतत्वं कैटभीरूपे द्योत्यते । जयति । त्रि-
भुवनाभिरामया रमयापि क्रियमाणत्वादिति भावः ॥
कृतकान्तकेलिकुतुकश्रीशीतश्वाससेकनिद्राणः ।
घोरितविततालिरुतो नाभिसरोजे विधिर्जयति ॥ २६ ॥
कृतेति । कृतं कान्तं मनोज्ञं यत्केलिकुतुकम् । एवं चोत्साहविशेषेण सुरतसंपादना-
च्छ्वासबाहुल्यं व्यज्यते । यत्तु कान्तेन विष्णुना सह यत्केलिकुतुकमिति तन्न । अन्येन
सहाप्रसक्तेः । कान्तकेलिरित्यनेन सुरतक्रीडैवायातीत्यपि न । अक्षकीडादेः संभवात् ।
नाभिसरोज इत्यादिनैव तत्प्रतीतेश्च । यया । एतादृशी या श्रीस्तस्याः शीताः । मदनानल-