2023-03-22 15:53:52 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
काचित्कांचिद्वक्ति--
यो न गुरुभिर्न मित्रैर्न विवेकेनापि नैव रिपुहसितैः ।
नियमितपूर्व: सुन्दरि स विनीतत्वं त्वया नीतः ॥ ४७२ ॥
य इति । यो गुरुभिर्मित्रैर्विवेकेन शत्रुहसितैः पूर्वेन नियन्त्रितः सः हे सुन्दरि, त्वया
विनीतत्वं प्रापितः । एवं च गुरुवचनस्यानुल्लङ्घनीयत्वेऽपि मित्रोपदेशस्यातिप्रियत्वेऽपि
विवेकस्य दुर्व्यसनादिपरित्यागसंपादनस्वाभाव्येऽपि वैरिहसितानामतिदुःखदत्वेऽपि तद-
गणनेनातिदुष्टस्यातिविनीतत्वसंपादनेन गुणगणशालित्वं नायिकायामावेद्यते ॥
कस्यचिदाश्रयेण संपत्तिशालिनं कश्चिदन्योक्त्या वक्ति--
यन्मूलमार्द्रमुदकैः कुसुमं प्रतिपर्व फलभरः परितः ।
द्रुम तन्माद्यसि वीचीपरिचयपरिणाममविचिन्त्य ॥ ४७३ ॥
यन्मूलमिति। यद्यस्माज्जलैर्मूलमार्द्रम् । प्रतिकाण्डं कुसुमानि । समन्तात्फलातिशयः ।
तत्तस्मात् हे वृक्ष, उन्मादं प्राप्नोषि । तरङ्गसंपर्कपरिपाकमविचार्य । एवं च यद्यपीदानीं
संपत्तिसंभारादुन्मत्तस्त्वमसि, तथाप्यग्रे कतिपयैर्दिवसैनिर्मूल एव भविष्यसीति द्योयते ।
यद्वा कासांचित्संगत्यावाप्तवसुतोन्मादशालिनं कश्चिद्वक्ति । एवं चैतासां संगत्या तवानि-
ष्टमवश्यंभावीति ध्वन्यते ॥
काचित्कंचित्प्रत्याह--
यस्याङ्के स्मरसंगरविश्रान्तिप्राञ्जला सखी स्वपिति ।
स वहतु गुणाभिमानं मदनधनुर्वल्लिचोल इव ॥ ४७४ ॥
यस्याङ्क इति । मदनयुद्धविरामे प्रसन्ना । पक्षे सरला । नायिका यस्य नायकस्याङ्के
निद्राति स गुणानां कामकलाभिज्ञतादीनाम् । पक्षे तन्तूनाम् । अभितः परिमाणं मद-
नधनुर्लताच्छादनपट इवाङ्गीकरोतु । एवं च यः सुरतेनानन्दसंवर्धको नायिकायाः स एव
धन्यो गुणवान्नान्य इति ध्वन्यते । तेन चैतादृशगुणे यतस्वेति ॥
कश्चित्कामकलाभिज्ञताभिमानी कांचिद्वक्ति--
यदि दानगन्धमात्राद्वसन्ति सप्तच्छदेऽपि दन्तिन्यः ।
किमिति मदपङ्कमलिनां करी कपोलस्थलीं वहति ॥ ४७५ ॥
यदीति । यदि मदोदकपरिमलसजातीयपरिमलमात्रात् । मात्रपदादितरगुणव्यवच्छेदः ।
सप्तच्छदेऽपि । अपिना साधारणत्वमावेद्यते । करिण्यो वसन्ति तदा गजो मदपङ्केन म-
लिनाम् । मालिन्यस्योपमासाधकस्य सत्त्वान्नात्र रूपकम् । कपोलस्थलीं किमिति वहति ।
एवं च पुरुषार्थोऽवश्यमपेक्षित इति ध्वन्यते ॥
कस्याश्चिद्वृत्तं कश्चिद्वक्ति--
यदवधि विवृद्धमात्रा विकसितकुसुमोत्करा शणश्रेणी ।
पीतांशुकप्रियेयं तदवधि पल्लीपतेः पुत्री ॥ ४७६ ॥