This page has been fully proofread once and needs a second look.

नायको नायिकां वक्ति--
 
यूनामीर्ष्यावैरं वितन्वता तरुणि चक्ररुचिरेण ।
तव जघनेनाकुलिता निखिला पल्ली खलेनेव ॥ ४६८ ॥
 
यूनामिति । हे तरुणि, तरुणानामीर्ष्यावैरम् । एकामिषत्वादित्युभयत्र भावः । वि-
स्तारयता । चक्रवत्सुन्दरेण । वर्तुलवादिति भावः । खलेनेव धान्यमर्दनस्थानेनेव तव
जघनेन समग्रा पल्ली व्याकुलीकृता । एवं च सर्वेऽपि त्वय्यासक्ताः संजाता इति भावः ।
खलेनेव दुष्टेनेवेति व्याख्याकरणे चक्रं समुदायस्तेन रुचिर इत्यर्थः ॥
 
कयोश्चिदत्यन्तमैत्रीं दृष्ट्वा कश्चिद्वक्ति--
 
यावज्जीवनभावी तुल्याशययोर्नितान्त निर्भेदः ।
नदयोरिवैष युवयोः सङ्गो रसमधिकमावहतु ॥ ४६९ ॥
 
यावदिति । यावदायुःस्थितिशाली । पक्षे यावदुदकस्थितिर्भावी । अत्यन्त निर्गत-
भेदः । तुल्यान्तःकरणयोः । पक्षे समानगम्भीरताशालिनोः । तरुणयोर्नदयोरिव सङ्गः
संगतिः । मैत्रीति यावत् । पक्षे संबन्धः । अधिकं रसं प्रीतिम् । पक्षे जलम् । आव-
हतु । एवं चैतादृश्येवेयमेतयोर्मैत्री उत्तरोत्तरवृद्धिशालिन्यस्त्विति ध्वन्यते ॥
 
नायकः सखायं वक्ति--
 
यन्निहितां शेखरयसि मालां सा यातु शठ भवन्तमिति ।
प्रहरन्तीं शिरसि पदा स्मरामि तां गर्वगुरुकोपाम् ॥ ४७० ॥
 
यदिति । यया निहितां दत्तां मालां शेखरयसि शिरोभूषणत्वेन कुरुषे सा हे शठ,
भवन्तं यात्विति । उक्त्वेति शेषः । मस्तके चरणेन प्रहरन्तीम् । अभिमानबहुतरं को-
पवतीम् । स्मरामि । एवं च तत्कालकृतताडनेन कोपपरिमार्जनेन सुरतानन्ददायितया
न तत्तुल्यान्येति तस्यामेव ममासक्तिरिति ध्वन्यते ॥
 
कश्चित्कंचिद्वक्ति--
 
यौवनगुप्तितिं पत्यौ बन्धुषु मुग्धत्वमार्जवं गुरुषु ।
कुर्वाणा हलिकवधूः प्रशस्यते व्याजतो युवभिः ॥ १७१ ॥
 
यौवनेति । पत्यौ नायके तारुण्यगोपनं कुर्वाणा । इदमग्रेऽप्यन्वेति । रक्षणकर्तृतया
यौवनज्ञानोत्तरं न बहिर्गन्तुं दास्यतीति धियेति भावः । बन्धुषु मुग्धत्वज्ञत्वम् । मुग्धत्व-
ज्ञानेनैतैर्यथेच्छ विहारः कर्तुतुं देयः । अथवा पतिसविधे न प्रेषणीयेयमिति घिधियेति भावः ।
श्वश्र्वादिष्वार्जवमृजुत्वम् । सरलत्वे ज्ञाते नैतैः कौटिल्यं ज्ञेयमिति धियेति भावः । हलि-
कस्त्री । एवं चाज्ञस्त्रीत्वेन मौर्ख्यवत्त्वौचित्येऽपि चातुर्यशालितया स्तुतिकरणयोग्यत्वमि-
त्यावेद्यते । तरुणैर्मिषात् । लोकगोपनार्थमिति भावः । प्रशस्यते स्तूयते ॥