This page has not been fully proofread.

१६०
 
नायको नायिकां वक्ति-
काव्यमाला ।
 
-
 
यूनामीर्ष्यवैरं वितन्वता तरुणि चक्ररुचिरेण ।
 

तव जघनेनाकुलिता निखिला पल्ली खलेनेव ॥ ४६८ ॥
 

 
यूनामिति । हे तरुणि, तरुणानामीर्ष्यावैरम् । एकामिषत्वादित्युभयत्र भावः । वि-

स्तारयता । चक्रवत्सुन्दरेण । वर्तुलवादिति भावः । खलेनेव धान्यमर्दनस्थानेनेव तव

जघनेन समग्रा पल्ली व्याकुलीकृता । एवं च सर्वेऽपि त्वय्यासक्ताः संजाता इति भावः ।

खलेनेव दुष्टेनेवेति व्याख्याकरणे चक्रं समुदायस्तेन रुचिर इत्यर्थः ॥
 

 
कयोश्चिदत्यन्तमैत्रीं दृष्ट्वा कश्चिद्वक्ति-
-
 
यावज्जीवनभावी तुल्याशययोनितान्त निर्भेदः ।
 

नदयोरिवैष युवयोः सङ्गो रसमधिकमावहतु ॥ ४६९ ॥
 

 
यावदिति । यावदायुःस्थितिशाली । पक्षे यावदुदकस्थितिर्भावी । अत्यन्त निर्गत-

भेदः । तुल्यान्तःकरणयोः । पक्षे समानगम्भीरताशालिनोः । तरुणयोर्नदयोरिव सङ्गः

संगतिः । मैत्रीति यावत् । पक्षे संबन्धः । अधिकं रसं प्रीतिम् । पक्षे जलम् । आव-

हतु । एवं चैतादृश्येवेयमेतयोर्मैत्री उत्तरोत्तरवृद्धिशालिन्यस्विति ध्वन्यते ॥
 

 
नायकः सखायं वक्ति-
-
 
यन्निहितां शेखरयसि मालां सा यातु शठ भवन्तमिति ।

प्रहरन्तीं शिरसि पदा स्मरामि तां गर्वगुरुकोपाम् ॥ ४७० ॥
 

 
यदिति । यया निहितां दत्तां मालां शेखरयसि शिरोभूषणत्वेन कुरुषे सा हे शठ,

भवन्तं यात्विति । उक्त्वेति शेषः । मस्तके चरणेन प्रहरन्तीम् । अभिमानबहुतरं को-

पवतीम् । स्मरामि । एवं च तत्कालकृतताडनेन कोपपरिमार्जनेन सुरतानन्ददायितया

न तत्तुल्यान्येति तस्यामेव ममासक्तिरिति ध्वन्यते ॥
 

 
कश्चित्कंचिद्वक्ति-
-
 
यौवनगुप्ति पत्यौ बन्धुषु मुग्धत्वमार्जवं गुरुषु ।
 

कुर्वाणा हलिकवधूः प्रशस्यते व्याजतो युवभिः ॥ १७१ ॥
 

 
यौवनेति । पत्यौ नायके तारुण्यगोपनं कुर्वाणा । इदमग्रेऽप्यन्वेति । रक्षणकर्तृतया

यौवनज्ञानोत्तरं न बहिर्गन्तुं दास्यतीति धियेति भावः । बन्धुषु मुग्धत्वभज्ञत्वम् । मुग्धव-

ज्ञानेनैतैर्यथेच्छ विहारः कर्तु देयः । अथवा पतिसविधे न प्रेषणीयेयमिति घियेति भावः ।

श्वश्वादिष्वार्जवमृजुत्वम् । सरलत्वे ज्ञाते नैतैः कौटिल्यं ज्ञेयमिति धियेति भावः । हलि-

कस्त्री । एवं चाज्ञस्त्रीत्वेन मौर्यवत्त्वौचित्येऽपि चातुर्यशालितया स्तुतिकरणयोग्यत्वमि-

त्यावेद्यते । तरुणैर्मिषात् । लोकगोपनार्थमिति भावः । प्रशस्यते स्तूयते ॥
 
Si Gargshwari Digital Fundation