This page has not been fully proofread.

आर्यासप्तशती ।
 
१५९
 
यत्वमावेद्यते । हे सखि । एवं च हितकथनार्हत्वं द्योत्यते । किं न दृष्टः । त्वयेति शेषः ।

एवं चैतादृशो गुणरूपयौवनादिसंपन्नो नान्योऽस्ति नायकः । अत एतद्दर्शनाय त्वरस्वेति

ध्वन्यते । अथवा त्वत्संबन्धी युवास्माभिः किं न दृष्टः । अपि तु दृष्टः । एवं च सम्य-

क्त्वया संपादितं यदेतादृश आसक्तिः संपादितेति ध्वन्यते । इति सखीवाक्यम् ॥

 
खलानां माहात्म्यदर्शनेनापि न विश्वासो विधेय इति कश्चिद्वक्ति
 
--
 
यद्वीक्ष्यते खलानां माहात्म्यं क्कापि दैवयोगेन ।
 

काकानामिव शौक्लयं तदपि हि न चिरादनर्थाय ॥ ४६९ ॥
 

 
यदिति । अदृष्टवशात्क्वचिद्दुष्टानां यन्महत्त्वं दृश्यते तदपि काकानां शौक्लयमिव न

चिराच्छीघ्रमनर्थाय। एवं च दुष्टस्वभावानामदुष्टस्वभावप्रदर्शनमकार्योद्देशेनैवेति व्यज्यते ॥

 
खला एव प्रेमविघटितार इति काचित्कांचिद्वक्ति-
-
 
यत्खलु खलमुखहुतवहविनिहितमपि शुद्धिमेव परमेति ।

तदनलशौचमिवांशुकमिह लोके दुर्लभं प्रेम ॥ ४६६ ॥
 

 

 
यदिति । यत्खलवदनरूपो यो वह्निस्तत्र क्षिप्तमपि शुद्धिमेव । एवकारेण विनाश-

व्यवच्छेदः । एति प्राप्नोति । तत्परमुत्कृष्टं प्रेम । अनले शौचं शुद्धिर्यस्यैतादृशवसनमिव

खलु निश्चितमिह लोके दुर्लभम् । एवं च को वेद स्वर्गादौ भविष्यति न वेति ध्वन्यते।

एवं च यथा वसनस्यानलप्रक्षेपणे विनाश एव, तथा खलविज्ञातप्रेम्णोऽवश्यं विनाश

एवेति ध्वन्यते । तेन च यथा खलैर्न विज्ञेयमेतत्प्रेम तथा कुर्विति । अथवा यत्खलै-

रपि विघटयितुमशक्यं तदेव प्रेम सम्यगिति काचिद्वक्ति । वहेरनलशौचं वस्त्रद्वय •

मस्तीति पुराणप्रसिद्धिः । अथवा यत्खलैरपि सम्यगिदमुभयोः प्रेमेत्युच्यते तदेव नि-

श्चयेन परमुत्कृष्टम् । अत एव दुर्लभम् । एवं च तथाविधेनैव सह प्रीतिर्विधेया या

खलैरपि स्तूयते, न तु साथारणेन सहेति ध्वन्यते । इति काचित्कांचित्प्रति वक्तीत्यर्थः ।

अत्र खल्बिति दुर्लभमित्यस्य संनिधावुचितम् । 'शुद्धमेव' इति पाठ एति निर्गच्छती-

त्यर्थः ॥
 

 
नायकः सखायं वक्ति-
-
 
यन्नावधिमर्थयते पाथेयार्थ ददाति सर्वस्वम् ।

तेनानयातिदारुणशङ्कामारोपितं चेतः ॥ ४६७ ॥
 

 
यदिति । येनेयमवधिं कदा समागन्तव्यमिति नार्थयते । न वदतीत्यर्थः । मार्गव्ययार्थ

सर्वस्वं यच्छति । तेनानया महत्तराशङ्कां चित्तं प्रापितम् । एवं चावधेरप्रार्थनेन व्ययाय

सर्वस्खदानेन चेयं मद्गमनोत्तरमवश्यं प्राणांस्त्यक्ष्यतीति भावः । एवं च न मया प्रस्थी-

यत इति ध्वन्यते । यद्वा कश्चित्कंचिद्वक्ति-अवधिप्रार्थनाभावेन पाथेयार्थ सर्वस्वदा-

नेन चानया चेतो नायकस्य दारुणशङ्कामन्यथासंभावनां प्रापितमिति भावः ॥
 
Sri Gargeshwari Diginal Fundation