This page has been fully proofread once and needs a second look.

भूतमिति किं वक्तव्यमिति व्यज्यते । अत्रोपसर्गस्य न तथा प्रयोजनम् । यद्वा यथास्थित
एवापिः । एवं चान्तर्भवनयोग्यत्वमावेद्यते । एवं च न पाण्डित्यग्राहिणो भवन्तः, किंतु द्र-
व्यलुब्धा इति द्योत्यते । एवं च द्रव्येणैव सर्वत्र प्रतिष्ठा, न पाण्डित्यमात्रेणेति । यद्वा
भक्तिरहित इत्यर्थः । एवं च यो भवदीयसेवां करोति स एव भवत्सु समावेशमाप्नोति, न
`तु पाण्डित्यमात्रशालीति भावः ॥
 
नायको वक्ति--
 
यत्र न दूती यत्र स्निग्धा न दृशोऽपि निपुणया निहिताः ।
न गिरोऽद्यापि व्यक्तीकृतः स भावोऽनुरागेण ॥ ४६२ ॥
 
यत्रेति । यत्र न दूती प्रेषितेति भावः । प्रेमार्द्राः कटाक्षा अपि न कृताः । गिरो-
ऽपि न । स भावोऽभिप्रायो निपुणया । सकलजनवश्ञ्चकत्वादिति भावः । अनुरागेण
व्यक्तीकृतः । एवं चातिनिगूढनि जकार्य साधकतयानया सदृशी न काप्यन्येति ध्वन्यते ।
यत्र भावे दूती न प्रकटनसमर्थेति भावः । यत्र निहिताः प्रेरिताः प्रेमार्द्रा दृशोऽपि न ।
स्निग्धा वाचोऽपि न प्राकट्यसंपादिका इति भावः । स भावो रसानुकूलविकारो निपु-
या । समयज्ञत्वादिति भावः । प्रीत्या प्रकटीकृतः । एवं च योऽनुभावो मत्प्रेषितदूती-
प्रेषणादिव्यापारैर्न प्रकटीकृतः, स भावोऽद्य स्वयं समयविशेषमासाद्य व्यक्तीकृत इति
लोकोत्तरचातुर्यशालित्वमावेद्यत इति वार्थः । 'स भावोऽनुगमनेन' इति पाठे तन्मरणो-
त्तरं तत्प्राणपरित्यागेनेयमस्मिन्नासक्तेति ज्ञातमित्यर्थः । क्वचित् 'स जारोऽनुमरणेन'
इति पाठः ॥
 
सपत्न्यधीनत्वादिकमसम्यगिति काचित्कांचिद्वक्ति--
 
या नीयते सपत्न्या प्रविश्य यावर्जिता भुजंगेन ।
यमुनाया इव तस्याः सखि मलिनं जीवनं मन्ये ॥ ४६३ ॥
 
या नीयत इति । सपत्न्या पतिप्रियान्तरया । पक्षे गङ्गया । नीयते । पतिसविध
इति भावः । पक्षे समुद्रसविधे । भुजंगेन । पक्षे सर्पेण । प्रविश्य यावर्जिता स्वाधीनी-
कृता । यमुनाया इव तस्या जीवनं जीवितम् । पक्षे जलम् । सखि, मलिनं निन्द्यम् ।
पक्षे श्यामम् । मन्ये । एवं चैतादृशतया स्थेयं नायिकया येनोपायेन गृहे सर्वाधिकतया-
वस्थानं भवतीति ध्वन्यते । यमुनाजलं श्याममिति कविसंप्रदायः ॥
 
दूती नायिकां केनचिन्नायकेन सह संगमयितुं वक्ति--
 
यस्मिन्नयशोऽपि यशो ह्रीर्विघ्नो मान एव दौःशील्यम् ।
लघुता गुणज्ञता किं नवो युवा सखि न ते दुष्टः ॥ ४६४ ॥
 
यस्मिन्निति । यस्मिन्यद्विषये तेऽकीर्तिरपि कीर्तिः । लज्जा विघ्नः । मानकरणमेव
दुःशीलता । एवकारेण तत्कार्यविरुद्धवचनादेः का वार्तेति भावः । लाघवं गुणप्रवणता ।
एतादृशो नूतनः । एवं चावश्यकग्राह्यदर्शनयोग्यत्वं व्यज्यते । तरुणः । एवं च स्पृहणी-