2023-03-20 16:19:30 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
महतेति । अत्यन्तप्रेमवता कृतमप्रियमपि सुभग सह्यतां याति । न दुःखदमित्यर्थः ।
अपिना सत्ह्यत्वमावेद्यते । अर्थान्तरन्यासमाह — --पुत्रोत्पत्त्या तारुण्यनाशनं दुःखाय नेति
निश्चितम् । एवं च नान्यथा शङ्कनीयमिति भावः । एवं च प्रियानिर्मिताप्रियेण खेदकर-
णमनुचितमिति ध्वन्यते । यद्वाखास्वापराधजन्यातिभीत्या नायिकादर्शनोदासीनं नायकं
नायिकासखी वक्ति–--सुभग । एवं च तवापराधेऽपि सा त्वामपेक्षते, अतस्त्वमत्यन्तं ध-
न्योऽसीति द्योत्यते । एवं चात्यन्तप्रेमवती सा त्वयि, अतस्त्वत्कृतापराधान्न गणयति,
अतस्त्वं भीतिमुत्सृज्य तस्याः सविधे प्रयाहीति ध्वन्यते ॥
नायको नायिकासखीं वक्ति--
मानग्रहगुरुकोपादनु दयितात्येव रोचते मह्यम् ।
काञ्चनमयी विभूषा दाहाश्ञ्चितशुद्धभावेव ॥ ४१५९ ॥
मानेति । मानाङ्गीकारेण महान्यः क्रोधस्तदनन्तरं दयिता मह्यमत्येव रोचते । दाहेन
प्रकटितशुद्धरूपा सुवर्णविकारविशिष्टभूषेव । एवं च यथा दाहादिना सुवर्णभूषणस्य नै-
मैर्मल्यं तथा मानापगमोत्तरं नायिकाया नैर्मल्यम् । अतो न त्वत्कृतमानातिशयेन मम
दुःखम् । अपि तु सुखमेवेति ध्वन्यते । तेन च मानस्यास्थिरत्वम् ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गग्यार्थदीपनया समेता मकारव्रज्या ।
----------------------------------
यकारव्रज्या ।
दूती नायके नायिकासक्त्यतिशयं वक्ति--
यूनः कण्टकविटपानिवाञ्चलग्राहिणस्त्यजन्ती सा ।
वन इव पुरेऽपि विचरति पुरुषं त्वामेव जानन्ती ॥ ४६० ॥
यून इति । सा नायिका कण्टकवृक्षानिव चेलाञ्चलग्राहकांस्तरुणांस्त्यजन्ती त्वामेव
पुरुषं जानाना वन इव नगरेऽपि विचरति । यून इत्यनेन स्पृहणीयत्वम्, कण्टकविटपानि-
वेत्यनेन स्वाभाविकबलात्कारित्वेऽपि तदगणनेनातिसतीत्वमावेद्यते । वन इवेत्यनेन यूनां
बाहुल्यम्, सभीतिसंचरणशालित्वं च नायिकायामावेद्यते । पुर इत्यनेनावश्यसंचरणानर्हत्वं
द्योयते । अपिनान्यसंग्रहः । पुरुषमित्यनेन मन्मथकलाकलापकुशलत्वम्, अथवान्ये स्त्री-
तुल्या इत्यत्यन्तानादरोऽन्ययुवखिस्विति व्यज्यते । एवं च सर्वत्र सर्वेऽपि तस्यामत्यन्तासक्ताः,
सा तु त्वय्येवेति ध्वन्यते ॥
कश्चिद्गुणी दरिद्रः कस्मिंश्चित्समुदाये गतस्तत्र वसतिमलभमानस्तान् वक्ति--
युष्मासूपगताः स्मो विबुधा वाङ्मात्रपाटवेन वयम् ।
अन्तर्भवति भवत्खस्वपि नामभक्तस्तन्न विज्ञातम् ॥ ४६१ ॥
युष्माखिस्विति । भोः पण्डिताः, वाङ्मात्रपाटवेन पाण्डित्यमात्रबलेन वयं भवत्सविधे
समागताः स्मः । 'विद्वानेव विजानाति विद्वज्जनपरिश्रमम्' इति धियेति भावः । भव-
न्मध्येऽभक्तोऽन्नरहितः । दरिद्र इति यावत् । नान्तर्भवतीति विज्ञातमपि न । अपिनानु-
अपिना स
निश्चितम् । एवं च नान्यथा शङ्कनीयमिति भावः । एवं च प्रियानिर्मिताप्रियेण खेदकर-
णमनुचितमिति ध्वन्यते । यद्वा
नायिकासखी वक्ति
न्योऽसीति द्योत्यते । एवं चात्यन्तप्रेमवती सा त्वयि, अतस्त्वत्कृतापराधान्न गणयति,
अतस्त्वं भीतिमुत्सृज्य तस्याः सविधे प्रयाहीति ध्वन्यते ॥
नायको नायिकासखीं वक्ति--
मानग्रहगुरुकोपादनु दयितात्येव रोचते मह्यम् ।
काञ्चनमयी विभूषा दाहा
मानेति । मानाङ्गीकारेण महान्यः क्रोधस्तदनन्तरं दयिता मह्यमत्येव रोचते । दाहेन
प्रकटितशुद्धरूपा सुवर्णविकारविशिष्टभूषेव । एवं च यथा दाहादिना सुवर्णभूषणस्य नै-
दुःखम् । अपि तु सुखमेवेति ध्वन्यते । तेन च मानस्यास्थिरत्वम् ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्
----------------------------------
यकारव्रज्या ।
दूती नायके नायिकासक्त्यतिशयं वक्ति--
यूनः कण्टकविटपानिवाञ्चलग्राहिणस्त्यजन्ती सा ।
वन इव पुरेऽपि विचरति पुरुषं त्वामेव जानन्ती ॥ ४६० ॥
यून इति । सा नायिका कण्टकवृक्षानिव चेलाञ्चलग्राहकांस्तरुणांस्त्यजन्ती त्वामेव
पुरुषं जानाना वन इव नगरेऽपि विचरति । यून इत्यनेन स्पृहणीयत्वम्, कण्टकविटपानि-
वेत्यनेन स्वाभाविकबलात्कारित्वेऽपि तदगणनेनातिसतीत्वमावेद्यते । वन इवेत्यनेन यूनां
बाहुल्यम्, सभीतिसंचरणशालित्वं च नायिकायामावेद्यते । पुर इत्यनेनावश्यसंचरणानर्हत्वं
द्योयते । अपिनान्यसंग्रहः । पुरुषमित्यनेन मन्मथकलाकलापकुशलत्वम्, अथवान्ये स्त्री-
तुल्या इत्यत्यन्तानादरोऽन्ययुव
सा तु त्वय्येवेति ध्वन्यते ॥
कश्चिद्गुणी दरिद्रः कस्मिंश्चित्समुदाये गतस्तत्र वसतिमलभमानस्तान् वक्ति--
युष्मासूपगताः स्मो विबुधा वाङ्मात्रपाटवेन वयम् ।
अन्तर्भवति भवत्
युष्मा