This page has not been fully proofread.

काव्यमाला ।
 
अपिश्चार्थः । मम च मन्दाक्षं लज्जा । कथमविदग्धः कोपमीदृश्या अव्यकरवमिति धि-

येति भावः । जातमिति सर्वान्वयि । एवं चैतादृशगुणविशेषशालि पराङ्गनासंगतं भ-

वतीति व्यज्यते ॥
 

 
नायकः 'अत्यन्तासक्तायां तस्यां न तवासक्तिः, एतस्यां सात्यन्तं किमिदम्' इति

वादिनं सखायं वक्ति-
-
 
मुक्ताम्बरैव धावतु निपततु सहसा त्रिमार्गगा वास्तु ।
 

इयमेव नर्मदा मम वंशप्रभवानुरूपरसा ॥ ४५५ ॥
 

 
मुक्तेति । हे सखे, सा मुक्तमम्बरं वासो यया । पक्षेऽम्बरमाकाशम् । धावतु । पततु ।

चरण इति भावः । पक्षे भूमाविति भावः । त्रिमार्गगा वास्तु । यत्किचित्तस्या भवत्विति

भावः । पक्षे स्वर्गमृत्युपातालगा। मम समीचीनवंशजन्या चासावनुकूलरतिमती । पक्षे वंशो

वेणुः । नर्मंदायास्तत उत्पत्तेः । रसो जलम् । इयमेव नर्मदा सुखदात्री । पक्षे नदी-

नाम । एवं चेयमेव मह्यं रोचते, न सेति ध्वन्यते । यद्वा यद्यप्यासक्तिं प्रदर्शयति त

थाप्यनेकमार्गगामिन्यतोऽस्तु । तिष्ठत्वित्यर्थः । सद्वंशप्रभवत्वेनेयमनेकमार्गगामित्वाभा-

वान्मम सुखदा । एवं च तस्या अनेकगामितया प्रेमप्रदर्शनं कृत्रिममिति भावः ॥
 

 
दूती नायिकां वक्ति-
-
 
मृगमदलेपनमेनं नीलनिचोलैव निशि निषेव त्वम् ।
 

कालिन्द्यामिन्दीवरमिन्दिन्दिरसुन्दरीव सखि ॥ ४५६ ॥
 

 
मृगेति । हे सखि, कस्तूरीलेपवन्तमेनं नायकं नीलवस्त्रैव रात्रौ सेवय । एवं च कृ

ष्णाभिसारिकात्वमेव तवोचितमिति भावः । कालिन्द्यां नीलकमलं भ्रमरसुन्दरीव । एवं

च त्रयाणामप्येकरूपत्वान्न केनापि किमपि ज्ञातुं शक्यमिति ध्वन्यते ॥
 

 
सखी कंचन नायकं वनायिकाचातुरीं वक्ति-
-
 
मम संख्या नयनपथे मिलितः शक्तो न कश्चिदपि चलितुम् ।
 

पतितोऽसि पथिक विषमे घट्टकुटीयं कुसुमकेतोः ॥ ४५७ ॥

 
ममेति । हे पथिक । एवं चान्यमार्गानभिज्ञत्वेन चिरविरहशालितया च तूष्णीमत्रा-

वस्थितिरुचितेति ध्वन्यते । मम सख्याः कटाक्षविषयीभूतः कश्चिदपि । एवं च तव का

वार्तेति भावः । गन्तुं न शक्तः । एवं चैतत्सौन्दर्याद्यालोकनेन के नासक्ता जाता इति

भावः । अतस्त्वं विषमे पतितोऽसि । यतः 'कस्य ब्रह्मणोऽपि दुर्गमे पथि' इति पदच्छेदेन

योज्यम्। इयं विषमशरस्य मदनराजस्य घट्टकुटी । एवं च त्वयात्रावस्थेयमित्यावेद्यते ॥
 

 
सखी नायकं वक्ति-
-
 
महता प्रियेण निर्मितमप्रियमपि सुभग सह्यतां याति

सुतसंभवेन यौवनविनाशनं न खलु खेदाय ॥ ४९८ ॥
 
तपात DE
 
Sri Cargeskunai Diginal Foundation