2023-03-20 16:02:07 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
महत इति । महाशयाः श्रेष्ठाः । पक्षे गभीराः । विश्वासाद्विनिश्चितं महतोऽपि श्रे-
ष्ठानपि । एवं चैतद्रक्षणे क्लेशवत्त्वेऽपि न तं महान्तः परिगणयन्तीति द्योत्यते । पक्षे
महापरिमाणान् । एवं च गोपने क्लेशवत्ता ध्वन्यते । दधति स्थापयन्ति । लघवो नीचाः ।
पक्षे स्वल्पपरिमाणशालिनः । अल्पमपि । एवं च संरक्षणे सुकरत्वमावेद्यते । न दधति ।
अर्थान्तरन्यासेनामुमेवार्थेथं द्रढयति–--समुद्रोऽद्रीन्गोपयति । अद्रीनित्यनेन स्खवदुःखदम-
न्दरसजातीयतया द्वेषवत्त्वेऽपि, इन्द्ररूपशत्रुसत्त्वेन भीतिकरणौचित्येऽपि च तदगणनेन
महत्तरत्वमावेद्यते । निदाघकालीननद्यो मण्डूकमपि न गोपयन्ति । भेकपदेनखस्वजीव-
नाधीनजीवनतया तथाविधशत्रुशून्यतया च रक्षणौचित्यमावेद्यते । एवं च महान्त
एव महत्तरशत्रुमवधूयापि शरणागतं पालयन्ति न क्षुद्रा इति ध्वन्यते ॥
आरब्धमानां नायिकां नायको वक्ति--
मधुधारेव न मुञ्चसि मानिनि रूक्षापि माधुरीं सहजाम् ।
कृतमुखभङ्गापि रसं ददासि मम सरिदिवाम्भोधेः ॥ ४५२ ॥
मध्विति । हे मानिनि । एवं च रूक्षत्वादिकरणौचित्यमावेद्यते । माक्षिकधारेव
रूक्षापि स्नेहाभाववत्यपि स्वाभाविकीं माधुरीं न त्यजसि । सहजामित्यनेन तत्परित्यागस्य
कर्तुमशक्यत्वमावेद्यते । वक्रीकृतवदनापि त्वं जलधेर्नदीव मम रसं प्रीतिम् । पक्षे
जलम् । प्रयच्छसि । मानश्चायं लघुः ॥
वीणावादनकारिणीं नायिकां सुरतोत्कण्ठितो नायकस्तन्निरसनाय वक्ति--
मदनाकृष्टधनुर्ज्याघातैरिव गृहिणि पथिकतरुणानाम् ।
वीणातन्त्रीकाक्वाणैः केषां न विकम्पते चेतः ॥ ४५३ ॥
मदनेति । हे गृहिणि । एवं च दयावत्त्वौचित्यमावेद्यते । मन्मथाकृष्टचापज्याघातैरिव
वीणातन्त्रीशब्दैः केषां पथिकतरुणानां चेतो न विकम्पते । अपि तु सर्वेषाम् । एवं चै-
तादृशत्वदीयवीणावादनश्रवणेन पथिकप्राणाः प्रयास्यन्ति, अतो विरम वीणावादनादिति
द्योत्यते । 'न विकल्पते' इति पाठे जीवनं भविष्यति न वेति संदेहवद्भवतीत्यर्थः ॥
नायकः सखायं वक्ति--
मम भयमस्याः कोपो निर्वेदोऽस्या ममापि मन्दाक्षम् ।
जातं क्व चान्तरिक्षे स्मितसंवृतिनमितकंधरयोः ॥ ४५४ ॥
ममेति । क्व चान्तरिक्षे क्वचिन्मार्गमध्ये स्मितगोपनार्थथं नमितग्रीवयोः । राज्त्र्यनुभूत-
विलास स्मरणजन्यदर्शनसमसमयस्मितस्य परकीयाविषयकत्वेन गोपनमावश्यकमिति
भावः । आवयोर्मध्ये मम भयम् । किमिति मया जनस्य प्रेमावेदकमिदं स्मितं कृतमिति
घियेति भावः । अस्या इति परोक्षायामपि नायिकायामपरोक्षवन्निर्देशोऽत्यन्तत देकतापन्न-
त्वमावेदयति । नायके कोपः । किमित्यहितं विहितं स्मितमादावनेनेति घियेति भावः ।
अस्या निर्वेदःखास्वावमानना । किमेतादृशेऽतिस्निग्धे विदग्धे कोपमकरवमिति धियेति भावः।
ष्ठानपि । एवं चैतद्रक्षणे क्लेशवत्त्वेऽपि न तं महान्तः परिगणयन्तीति द्योत्यते । पक्षे
महापरिमाणान् । एवं च गोपने क्लेशवत्ता ध्वन्यते । दधति स्थापयन्ति । लघवो नीचाः ।
पक्षे स्वल्पपरिमाणशालिनः । अल्पमपि । एवं च संरक्षणे सुकरत्वमावेद्यते । न दधति ।
अर्थान्तरन्यासेनामुमेवार्
न्दरसजातीयतया द्वेषवत्त्वेऽपि, इन्द्ररूपशत्रुसत्त्वेन भीतिकरणौचित्येऽपि च तदगणनेन
महत्तरत्वमावेद्यते । निदाघकालीननद्यो मण्डूकमपि न गोपयन्ति । भेकपदेन
नाधीनजीवनतया तथाविधशत्रुशून्यतया च रक्षणौचित्यमावेद्यते । एवं च महान्त
एव महत्तरशत्रुमवधूयापि शरणागतं पालयन्ति न क्षुद्रा इति ध्वन्यते ॥
आरब्धमानां नायिकां नायको वक्ति--
मधुधारेव न मुञ्चसि मानिनि रूक्षापि माधुरीं सहजाम् ।
कृतमुखभङ्गापि रसं ददासि मम सरिदिवाम्भोधेः ॥ ४५२ ॥
मध्विति । हे मानिनि । एवं च रूक्षत्वादिकरणौचित्यमावेद्यते । माक्षिकधारेव
रूक्षापि स्नेहाभाववत्यपि स्वाभाविकीं माधुरीं न त्यजसि । सहजामित्यनेन तत्परित्यागस्य
कर्तुमशक्यत्वमावेद्यते । वक्रीकृतवदनापि त्वं जलधेर्नदीव मम रसं प्रीतिम् । पक्षे
जलम् । प्रयच्छसि । मानश्चायं लघुः ॥
वीणावादनकारिणीं नायिकां सुरतोत्कण्ठितो नायकस्तन्निरसनाय वक्ति--
मदनाकृष्टधनुर्ज्याघातैरिव गृहिणि पथिकतरुणानाम् ।
वीणातन्त्री
मदनेति । हे गृहिणि । एवं च दयावत्त्वौचित्यमावेद्यते । मन्मथाकृष्टचापज्याघातैरिव
वीणातन्त्रीशब्दैः केषां पथिकतरुणानां चेतो न विकम्पते । अपि तु सर्वेषाम् । एवं चै-
तादृशत्वदीयवीणावादनश्रवणेन पथिकप्राणाः प्रयास्यन्ति, अतो विरम वीणावादनादिति
द्योत्यते । 'न विकल्पते' इति पाठे जीवनं भविष्यति न वेति संदेहवद्भवतीत्यर्थः ॥
नायकः सखायं वक्ति--
मम भयमस्याः कोपो निर्वेदोऽस्या ममापि मन्दाक्षम् ।
जातं क्व चान्तरिक्षे स्मितसंवृतिनमितकंधरयोः ॥ ४५४ ॥
ममेति । क्व चान्तरिक्षे क्वचिन्मार्गमध्ये स्मितगोपनार्
विलास
भावः । आवयोर्मध्ये मम भयम् । किमिति मया जनस्य प्रेमावेदकमिदं स्मितं कृतमिति
घियेति भावः । अस्या इति परोक्षायामपि नायिकायामपरोक्षवन्निर्देशोऽत्यन्तत

अस्या निर्वेदः