This page has not been fully proofread.

आर्यासप्तशती ।
 
१९९
 
महत इति । महाशयाः श्रेष्ठाः । पक्षे गभीराः । विश्वासाद्विनिश्चितं महतोऽपि श्रे-

ष्ठानपि । एवं चैतद्रक्षणे क्लेशवत्त्वेऽपि न तं महान्तः परिगणयन्तीति योयते । पक्षे

महापरिमाणान् । एवं च गोपने क्लेशवत्ता ध्वन्यते । दधति स्थापयन्ति । लघवो नीचाः ।

पक्षे स्वल्पपरिमाणशालिनः । अल्पमपि । एवं च संरक्षणे सुकरत्वमावेद्यते । न दधति ।

अर्थान्तरन्यासेनामुमेवार्थे द्रढयति–समुद्रोऽद्रीन्गोपयति । अद्रीनित्यनेन स्खदुःखदम-

न्दरसजातीयतया द्वेषवत्त्वेऽपि, इन्द्ररूपशत्रुसत्त्वेन भीतिकरणौचित्येऽपि च तदगणनेन

महत्तरत्वमावेद्यते । निदाघकालीननद्यो मण्डूकमपि न गोपयन्ति । भेकपदेन खजीव-

नाधीनजीवनतया तथाविधशत्रुशून्यतया च रक्षणौचित्यमावेद्यते । एवं च महान्त

एव महत्तरशत्रुमवधूयापि शरणागतं पालयन्ति न क्षुद्रा इति ध्वन्यते ॥

 
आरब्धमानां नायिकां नायको वक्ति
 
--
 
मधुधारेव न मुञ्चसि मानिनि रूक्षापि माधुरीं सहजाम् ।
 

कृतमुखभङ्गापि रसं ददासि मम सरिदिवाम्भोधेः ॥ ४५२ ॥

 
मध्विति । हे मानिनि । एवं च रूक्षत्वादिकरणौचित्यमावेद्यते । माक्षिकधारेव

रूक्षापि स्नेहाभाववत्यपि स्वाभाविकीं माधुरीं न त्यजसि । सहजामित्यनेन तत्परित्यागस्य

कर्तुमशक्यत्वमावेद्यते । वक्रीकृतवदनापि त्वं जलधेर्नदीव मम रसं प्रीतिम् । पक्षे

जलम् । प्रयच्छसि । मानश्चायं लघुः ॥
 

 
वीणावादनकारिणीं नायिकां सुरतोत्कण्ठितो नायकस्तन्निरसनाय वक्ति-
-
 
मदनाकृष्टधनुर्ज्याघातैरिव गृहिणि पथिकतरुणानाम् ।
 

वीणातन्त्रीकाणैः केषां न विकम्पते चेतः ॥ ४५३ ॥

 
मदनेति । हे गृहिणि । एवं च दयावत्त्वौचित्यमावेद्यते । मन्मथाकृष्टचापज्याघातैरिव

वीणातन्त्रीशब्दैः केषां पथिकतरुणानां चेतो न विकम्पते । अपि तु सर्वेषाम् । एवं चै-

तादृशत्वदीयवीणावादनश्रवणेन पथिकप्राणाः प्रयास्यन्ति, अतो विरम वीणावादनादिति

द्योयते । 'न विकल्पते' इति पाठे जीवनं भविष्यति न वेति संदेहवद्भवतीत्यर्थः ॥

 
नायकः सखायं वक्ति-
-
 
मम भयमस्याः कोपो निर्वेदोऽस्या ममापि मन्दाक्षम् ।
 

जातं क्व चान्तरिक्षे स्मितसंवृतिनमितकंधरयोः ॥ ४५४ ॥

 
ममेति । क्व चान्तरिक्षे क्वचिन्मार्गमध्ये स्मितगोपनार्थ नमितग्रीवयोः । राज्यनुभूत-

विलास स्मरणजन्यदर्शनसमसमयस्मितस्य परकीयाविषयकत्वेन गोपनमावश्यकमिति

भावः । आवयोर्मध्ये मम भयम् । किमिति मया जनस्य प्रेमावेदकमिदं स्मितं कृतमिति

घियेति भावः । अस्या इति परोक्षायामपि नायिकायामपरोक्षवन्निर्देशोऽत्यन्तत देकतापन्न-

त्वमावेदयति । नायके कोपः । किमित्यहितं विहितं स्मितमादावनेनेति घियेति भावः ।

अस्या निर्वेदः खावमानना । किमेतादृशेऽतिस्निग्धे विदग्धे कोपमकरवमिति धियेति भावः।
 
Sri Gurgeshwari Digital Fundation