2023-03-20 15:39:37 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
ममेति । हे सखि, कोपवत्या मम च्छायां भूमावालिङ्गग्य संजातरोमाञ्चः प्रीतिप्रचुर-
त्वमपरित्यजन्नेष मां क्रोधरहितां किं न करोति । अपि तु करोति । एवं चैतादृशैतट्टद्वृ-
त्तमवलोक्य मानः परित्यक्तो मयेति व्यज्यते । यद्वा शिथिलितकोपा नायिका सखीं
चक्ति—कुपिताया मम च्छायां भूमावालिङ्गग्य संजातरोमाञ्चः प्रीतिप्रचुरत्वमपरित्यज-
न्मामपगतरोषां हे सखि, किं न करोति, किं न करिष्यतीति प्रश्नः । 'वर्तमानसामीप्ये
वर्तमानवद्वा' इति भविष्यत्यपि लट् । एवं च हे सखि, त्वं तथा कुरु यथायं मम
च्छायायाः प्रणिपातादिना मामनुयातीति ध्वन्यते । क्वचित् 'मापरुषम्' इति पाठः ।
नायिका चेयं परकीया ॥
कश्चित् सखायं वक्ति--
मुषित इव क्षणविरहे रिपुरिव कुसुमेषुकेलिसङ्ग्रामे ।
दास इव श्रमसमये भजन्नताङ्गीं न तृप्यामि ॥ ४४८ ॥
मुषित इति । क्षणमात्रसंजातविरहे मुषित इवाविद्यमान इव । मन्मथकलायुद्धे
शत्रुरिव । श्रमकाले सेवक इव नताहींङ्गीं भजन्न तृप्यामि । विरहासहिष्णुत्वप्रचण्डरत-
कलाशालित्वतदाज्ञानुवर्तित्वानि क्रमेण मुषित इवेत्यादित्रयेण व्यज्यन्ते । एवं चैतादृशी
नायिका नान्येति ध्वन्यते ॥
अनुनयानेकप्रकारकरणेऽप्यधिककोपशालिनीं नायिकामवलोक्यानुनयनिर्विष्ण्णहृदयं
नायकं सखी समुपदिशति--
मुञ्चसि किं मानवतीं व्यवसायाद्द्विगुणमन्युवेगेति ।
स्नेहभवः पयसाग्निः सान्त्वेन च रोष उन्मिषति ॥ ४४९ ॥
मुञ्चसीति । व्यवसायात्सान्त्वनप्रकाराद्द्विगुणकोपवेगेति हेतोर्मानवतीं मुश्ञ्चसि, इदं
किम् ।नीनोचितमिति भावः । अत्रोपष्टम्भकमाह - --स्नेहभवः प्रीतिजन्यः । पक्षे तैल-
जन्यः । कोपोऽनुनयेन, अग्निर्जलेनोन्मिषति । अघिधिको भवतीत्यर्थः । एवं चैतस्याः
कोपः प्रीतिवूपूर्वक एव, अतो न त्वमेतस्याः समाधानाद्विरमेति ध्वन्यते ॥
इतरसंतापात्कामसंताप एवाधिक इति कश्चित्कंचिद्वक्ति---
मलयजमपसार्य घनं वीजनविघ्नं विधाय बाहुभ्याम् ।
स्मरसंतापादगणितनिदाघमालिङ्गते मिथुनम् ॥ ४५० ॥
मलयजमिति । भुजाभ्यां चन्दनं दूरीकृत्य, घनमत्यन्तं वीजनस्य विघ्नं विधाय,
मदनसंतापवशादनादृतघर्मकालीननिदाघम्, स्त्रीपुंसद्वन्द्वमालिङ्गते । 'विहाय' इति पाठे
वीजनाभिन्नं विघ्नमित्यर्थः । निदाघकालीनसंतापदुःखमगणयित्वा सद्यः प्रयाहि दयि-
तासविधे इति द्योत्यते ॥
कश्चित्कंचिच्छरणागतस्तेन चारक्षितस्तं वक्ति--
महतोऽपि हि विश्वासान्महाशया दधति नाल्पमपि लघवः ।
संवृणुतेऽद्रीनुदधिनिंर्निदाघनद्यो न भेकमपि ॥ ४९९५१ ॥
त्वमपरित्यजन्नेष मां क्रोधरहितां किं न करोति । अपि तु करोति । एवं चैतादृशैत
त्तमवलोक्य मानः परित्यक्तो मयेति व्यज्यते । यद्वा शिथिलितकोपा नायिका सखीं
चक्ति—कुपिताया मम च्छायां भूमावालिङ्
न्मामपगतरोषां हे सखि, किं न करोति, किं न करिष्यतीति प्रश्नः । 'वर्तमानसामीप्ये
वर्तमानवद्वा' इति भविष्यत्यपि लट् । एवं च हे सखि, त्वं तथा कुरु यथायं मम
च्छायायाः प्रणिपातादिना मामनुयातीति ध्वन्यते । क्वचित् 'मापरुषम्' इति पाठः ।
नायिका चेयं परकीया ॥
कश्चित् सखायं वक्ति--
मुषित इव क्षणविरहे रिपुरिव कुसुमेषुकेलिसङ्ग्रामे ।
दास इव श्रमसमये भजन्नताङ्गीं न तृप्यामि ॥ ४४८ ॥
मुषित इति । क्षणमात्रसंजातविरहे मुषित इवाविद्यमान इव । मन्मथकलायुद्धे
शत्रुरिव । श्रमकाले सेवक इव नता
कलाशालित्वतदाज्ञानुवर्तित्वानि क्रमेण मुषित इवेत्यादित्रयेण व्यज्यन्ते । एवं चैतादृशी
नायिका नान्येति ध्वन्यते ॥
अनुनयानेकप्रकारकरणेऽप्यधिककोपशालिनीं नायिकामवलोक्यानुनयनिर्वि
नायकं सखी समुपदिशति--
मुञ्चसि किं मानवतीं व्यवसायाद्द्विगुणमन्युवेगेति ।
स्नेहभवः पयसाग्निः सान्त्वेन च रोष उन्मिषति ॥ ४४९ ॥
मुञ्चसीति । व्यवसायात्सान्त्वनप्रकाराद्द्विगुणकोपवेगेति हेतोर्मानवतीं मु
किम् ।
जन्यः । कोपोऽनुनयेन, अग्निर्जलेनोन्मिषति । अ
कोपः प्रीति
इतरसंतापात्कामसंताप एवाधिक इति कश्चित्कंचिद्वक्ति---
मलयजमपसार्य घनं वीजनविघ्नं विधाय बाहुभ्याम् ।
स्मरसंतापादगणितनिदाघमालिङ्गते मिथुनम् ॥ ४५० ॥
मलयजमिति । भुजाभ्यां चन्दनं दूरीकृत्य, घनमत्यन्तं वीजनस्य विघ्नं विधाय,
मदनसंतापवशादनादृतघर्मकालीननिदाघम्, स्त्रीपुंसद्वन्द्वमालिङ्गते । 'विहाय' इति पाठे
वीजनाभिन्नं विघ्नमित्यर्थः । निदाघकालीनसंतापदुःखमगणयित्वा सद्यः प्रयाहि दयि-
तासविधे इति द्योत्यते ॥
कश्चित्कंचिच्छरणागतस्तेन चारक्षितस्तं वक्ति--
महतोऽपि हि विश्वासान्महाशया दधति नाल्पमपि लघवः ।
संवृणुतेऽद्रीनुदधि