This page has not been fully proofread.

१९४
 
काव्यमाला ।
 
ममेति । हे सखि, कोपवत्या मम च्छायां भूमावालिङ्गय संजातरोमाञ्चः प्रीतिप्रचुर

त्वमपरित्यजन्नेष मां क्रोधरहितां किं न करोति । अपि तु करोति । एवं चैतादृशैतट्ट-

त्तमवलोक्य मानः परित्यक्तो मयेति व्यज्यते । यद्वा शिथिलितकोपा नायिका सखीं

चक्ति—कुपिताया मम च्छायां भूमावालिङ्गय संजातरोमाञ्चः प्रीतिप्रचुरत्वमपरित्यज-

न्मामपगतरोषां हे सखि, किं न करोति, किं न करिष्यतीति प्रश्नः । 'वर्तमानसामीप्ये

वर्तमानवद्वा' इति भविष्यत्यपि लट् । एवं च हे सखि, त्वं तथा कुरु यथायं मम

च्छायायाः प्रणिपातादिना मामनुयातीति ध्वन्यते । क्वचित् 'मापरुषम्' इति पाठः ।

नायिका चेयं परकीया ॥

 
कश्चित्सखायं वक्ति-
-
 
-
 
मुषित इव क्षणविरहे रिपुरिव कुसुमेषुकेलिसङ्ग्रामे ।
 

दास इव श्रमसमये भजन्नताङ्गीं न तृप्यामि ॥ ४४८ ॥
 

 
मुषित इति । क्षणमात्रसंजातविरहे मुषित इवाविद्यमान इव । मन्मथकलायुद्धे

शत्रुरिव । श्रमकाले सेवक इव नताहीं भजन्न तृप्यामि । विरहासहिष्णुत्वप्रचण्डरत-

कलाशालिवतदाज्ञानुवर्तित्वानि क्रमेण मुषित इवेत्यादित्रयेण व्यज्यन्ते । एवं चैतादृशी

नायिका नान्येति ध्वन्यते ॥
 

 
अनुनयानेकप्रकारकरणेऽप्यधिककोपशालिनीं नायिकामवलोक्यानुनयनिर्विष्णहृदयं

नायकं सखी समुपदिशति-
-
 
मुञ्चसि किं मानवतीं व्यवसायाद्द्विगुणमन्युवेगेति ।
 
-
 

स्नेहभवः पयसाग्निः सान्त्वेन च रोष उन्मिषति ॥ ४४९ ॥

 
मुञ्चसीति । व्यवसायात्सान्त्वनप्रकाराद्विगुणकोपवेगेति हेतोर्मानवतीं मुश्चसि, इदं

किम् । नीचितमिति भावः । अत्रोपष्टम्भकमाह - स्नेहभवः प्रीतिजन्यः । पक्षे तैल-

जन्यः । कोपोऽनुनयेन, अग्निर्जलेनोन्मिषति । अघिको भवतीत्यर्थः । एवं चैतस्याः

कोपः प्रीतिवूर्वक एव, अतो न त्वमेतस्याः समाधानाद्विरमेति ध्वन्यते ॥

 
इतरसंतापात्कामसंताप एवाधिक इति कश्चित्कंचिद्वक्ति-
-
 
--
 
मलयजमपसार्य घनं वीजनविघ्नं विधाय बाहुभ्याम् ।

स्मरसंतापादगणितनिदाघमालिङ्गते मिथुनम् ॥ ४५० ॥

 
मलयजमिति । भुजाभ्यां चन्दनं दूरीकृत्य, घनमत्यन्तं वीजनस्य विघ्नं विधाय,

मदनसंतापवशादनादृतघर्मकालीननिदाघम्, स्त्रीपुंसद्वन्द्वमालिङ्गते । 'विहाय' इति पाठे

वीजनाभिन्नं विघ्नमित्यर्थः । निदाघकालीनसंतापदुःखमगणयित्वा सद्यः प्रयाहि दयि-

तासविधे इति द्योत्यते ॥
 

 
कश्चित्कंचिच्छरणागतस्तेन चारक्षितस्तं वक्ति-
-
 
महतोऽपि हि विश्वासान्महाशया दधति नाल्पमपि लघवः

संवृणुतेऽद्रीनुदधिनिंदाघनद्यो न भेकमपि ॥ ४९९ ॥
 
F
 
Sri Gurgeshwari Digital Foundation