This page has been fully proofread once and needs a second look.

मूल इति । मूले । आनन्दनिदाने रहसीति यावत् । पक्षे यथाश्रुतम् । स्वभावमधु-
रम् । एवं चौपाधिकमधुररसदातारोऽन्य इति भावः । रसं रत्यादिकम् । पक्ष इक्षुवि-
कारम् । सम्यगपर्यन्तः । एवं चान्यत्र समर्पणेऽपि न सामीचीन्यमिति भावः ।
एवं च परपुरुषातिरिक्तपुरुषाणां रतं न स्वतो मधुरम्, न वा ते तत्कलासु
कुशला इत्यावेद्यते । पुरो जनसमक्षम् । पक्षेऽग्रभागे । विरसाः । लोकभीतेरिति
भावः । एवं च लोकवञ्चनानिपुणत्वेनाति विज्ञत्वमावेद्यते । परपुरुषा इक्षव इवानेकरसेषु
विविधरतादीदौ । पक्षेऽनेकविधमधुरप्रकारादौ । विशेषेण स्थाप्याः । एवं च परपुरुषेध्ष्व-
भिरुचिरतितरामुचितेति ध्वन्यते । यद्वा काचित्परपुरुषाभिरतिं निन्दति । विविधरसेषु
स्थापयितुं योग्याः परपुरुषा इक्षव इव मूले प्रथमतः स्वभावेन मधुरं रसं प्रीत्यादि
समर्पयन्तोऽग्रे विरसा भवन्ति । एवं च 'प्राज्ञास्तत्कर्म कुर्वन्ति येनान्ते सुखमेधते' इत्यु-
क्तत्वात्प्रान्ते परपुरुषसंगतेरनिवार्यदुःखदत्वेन तत्करणमनुचितमिति द्योत्यते । यद्वा
प्रथमतः सरसाः पश्चान्नीरसाः परपुरुषा विविधरसेषु विनिधेया इति काक्का नेत्यर्थः ॥
 
काचित् 'नायकं किमर्थमवगणयसि' इति वादिनीं सखीं वक्ति--
 
महति स्नेहे निहितः कुसुमं बहु दत्तमर्चितो बहुशः ।
वक्रस्तदपि शनैश्चर इव सखि दुष्टग्रहो दयितः ॥ ४४
 
महतीति । यद्यपि महति बहुतरे स्नेहे प्रेम्णि । पक्षे तैले । निहितः । तस्मिन्प्रेम
बहुतरं संपादितमिति भावः । पक्षे लोहमयी शनैश्चरप्रतिमा बहुतरतैले स्थाप्यत इति
भावः । कुसुमम् । एकत्वमविवक्षितम् । बहुवारं दत्तम् । यद्वा बहु कुसुममित्यन्वयः ।
बहुप्रकारं पूजितस्तदपि दुष्टो ग्रह आग्रहो यस्य । पक्षे दुष्टश्चासौ ग्रहश्चेति विग्रहः ।
वक्रः ऋजुर्न । पक्षे वक्रोऽन्यराशिस्थितोऽन्यराशिसंचरणवान् । शनैश्चर इव । एवं चै-
तादृशशनेः पूजादिनापि नानुकूल्यं यथा तथास्य नायकस्य । अतो न ममापराध इति
ध्वन्यते ॥
 
कांचिन्नीचजनसेवितां यौवनगर्वितां काचिदन्योक्त्या वक्ति--
 
मा शबरतरुणि पीवरवक्षोरुहयोर्रेण भज गर्वम् ।
निर्मोकैरपि शोभा ययोर्भुजंगीभिरुन्मुक्तैः ॥ ४४६ ॥
 
मा शबरेति । शबरस्य तरुणि । एवं च स्वतो गुणाभावेऽपि नायकस्यापि निर्गुण-
तया तत्संगतिलभ्यगुणवत्ताभावो व्यज्यते । मांसलस्तनयोर्भरेण गर्नेवं मा भज । भुजंगी-
भिरुरगीभिरथ च वेश्याभिः परित्यक्तैरपि । एवं चानादरो द्योत्यते । निर्मोकैर्ययोः
शोभा । एवं च कदर्यजनसेवितत्वेन न त्वया गर्वः कार्य इति व्यज्यते ॥
 
'कथं त्वया मानः परित्यक्तः' इति वादिनीं सखीं नायिका वक्ति--
 
मम कुपितायाश्छायां भूमावालिङ्ग्य सखि मिलत्पुलकः ।
स्नेहमयत्वमनुज्झन्करोति किकिं नैष मामरुषम् ॥ ४४७ ॥