This page has been fully proofread once and needs a second look.

च मग्नोऽसि । एवं चानन्दनिमग्नमानसतया लोकनिन्दाज्ञानवैधुर्यमावेद्यते । भ्रष्ट इति
द्युच्यसे । लोकैरित्यर्थः । अत्र कर्त्रनुपादानेन सर्वेऽपि त्वां निन्दन्तीति व्यञ्जनेन न
न्यून पदत्वमाशङ्कनीयम् । तर्हि ते भ्रंशोऽपि श्लाघाईःर्हः । नायिकाया लोकोत्तरसौन्दर्या-
दिगुणशालितयेति भावः । एवं चैतादृशं निन्द्यकर्मापि चेत्कर्तव्यं तर्खेह्येतादृशनायिकया
सहेति ध्वन्यते ॥
 
पाणिग्रहणसमयसंजातसात्त्विकभावोदयं कंचन कश्चिद्वक्ति--
 
मेनामुल्लासयति स्मेरयति हरिं गिरिं च विमुखयति ।
कृतकरबन्धविलम्बः परिणयने गिरिशकरकम्पः ॥ ४४१ ॥
 
मेनामिति । विवाहकाले संपादितपाणिग्रहणविलम्बो गिरिशस्य हस्तकम्पो मेनां
पार्वतीमातरमुल्लासयति स्मेत्यर्थः । एवमुत्तरत्र । कामोद्रिक्तजामातृलाभादिति भावः ।
विष्णुं स्मेरयति । अत्यन्तप्रकटितवैराग्यस्याप्यस्यैतादृश्यवस्थेति कुतुकादिति भावः ।
हिमालयं च विमुखयति । लज्जावशादिति । एवं चैतादृश्यवस्थावश्यं महतामपि भव-
तीति न त्वया कापि लज्जा विधेयेति ध्वन्यते ॥
 
मधुगन्धि र्मतिम्यत्तिलकं स्खलदुक्ति घूर्णदरुणाक्षम् ।
तस्याः कदाधरामृतमाननमवधूय पास्यामि ॥ ४४२ ॥
 
मध्विति । मद्यगन्धवत्, प्रस्वेदार्द्रतिलकम्, स्खलदुक्ति । सोन्मादत्वादिति भावः ।
घूर्णदरुणनयनम् तस्या बुद्धिस्थनायिकाया मुखमवधूय तिरस्कृत्य । अचुम्बयित्वेति
भावः । अधरामृतम् । उत्तरोष्ठपान निषेधादिति भावः । पास्यामि । एवं चैतादृशवदन-
चुम्बनादप्यधरपानमधिकमिति व्यज्यते । यद्वा मधुगन्धादिगुणयुक्तमाननमवधूय कम्प-
यित्वा । स्थिताया इति शेषः । तस्या अधरामृतं पास्यामीति योजना । पथिकाशंसनमेतत् ॥
 
काचित्कां काञ्चिद्वक्ति-
 
मेदिन्यां तव निपतति न पदं बहुवल्लभेति गर्वेण ।
आश्लिष्य कैर्न तरुणैस्तुरीव वसनैर्विमुक्कासि ॥ ४४३ ॥
 
मेदिन्यामिति । अहं बहूनां वल्लभेति गर्वेण तव पदं भूमौ न निपतति । कैस्तरुणैरा-
लिङ्गथग्य वस्त्रैस्तुरीव न विमुक्तासि । उपसर्गेण पुनः कदापि न संबन्ध इत्यावेद्यते ।
उत्तरोत्तरनायकवल्लभात्वे पूर्वपूर्वनायकवल्लभात्वाभावस्य हेतुतया तस्य च गुणशून्यत्व-
ज्ञानाधीनतया न तवानेकवल्लभात्वेन गर्वकरणमुचितम्, अपि तु यस्यामेव कलाकला-
पाकृष्टो नायको निमग्नमानसस्तस्या एव गर्वकरणमुचितमिति ध्वन्यते ॥
 
परपुरुषेष्वभिरतिमुत्पादयितुं दूती नायिकां वक्ति--
 
मूले निसर्गमधुरं समर्पयन्तो रसं पुरो विरसाः ।
इक्षव इव परपुरुषा विविधेषु रसेषु विनिधेयाः ॥ ४४४ ॥