This page has not been fully proofread.

१५२
 
च मनोऽसि । एवं चानन्दनिमग्नमानसतया लोकनिन्दाज्ञानवैधुर्यमावेद्यते । भ्रष्ट इति

ययुच्यसे । लोकैरित्यर्थः । अत्र कर्त्रनुपादानेन सर्वेऽपि त्वां निन्दन्तीति व्यञ्जनेन न

न्यून पदत्वमाशङ्कनीयम् । तर्हि ते भ्रंशोऽपि श्लाघाईः । नायिकाया लोकोत्तरसौन्दर्या-

दिगुणशालितयेति भावः । एवं चैतादृशं निन्द्यकर्मापि चेत्कर्तव्यं तर्खेतादृशनायिकया

सहेति ध्वन्यते ॥
 
काव्यमाला ।
 

 
पाणिग्रहणसमयसंजातसात्त्विकभावोदयं कंचन कश्चिद्वक्ति-
-
 
मेनामुल्लासयति स्मेरयति हरिं गिरिं च विमुखयति ।
 

कृतकरबन्धविलम्बः परिणयने गिरिशकरकम्पः ॥ ४४१ ॥

 
मेनामिति । विवाहकाले संपादितपाणिग्रहणविलम्बो गिरिशस्य हस्तकम्पो मेनां

पार्वतीमातरमुल्लासयति स्मेत्यर्थः । एवमुत्तरत्र । कामोद्रितजामातृलाभादिति भावः ।

विष्णुं स्मेरयति । अत्यन्तप्रकटितवैराग्यस्याप्यस्यैतादृश्यवस्थेति कुतुकादिति भावः ।

हिमालयं च विमुखयति । लज्जावशादिति । एवं चैतादृश्यवस्थावश्यं महतामपि भव-

तीति न त्वया कापि लज्जा विधेयेति ध्वन्यते ॥
 

 
मधुगन्धि धर्मतिम्यत्तिलकं स्खलदुक्ति घूर्णदरुणाक्षम् ।
 

तस्याः कदाधरामृतमाननमवधूय पास्यामि ॥ ४४२ ॥

 
मध्विति । मद्यगन्धवत्, प्रस्वेदार्द्रतिलकम्, स्खलदुक्ति । सोन्मादत्वादिति भावः ।

घूर्णदरुणनयनम् तस्या बुद्धिस्थनायिकाया मुखमवधूय तिरस्कृत्य । अचुम्बयित्वेति

भावः । अधरामृतम् । उत्तरोष्ठपान निषेधादिति भावः । पास्यामि । एवं चैतादृशवदन-

चुम्बनादप्यधरपानमधिकमिति व्यज्यते । यद्वा मधुगन्धादिगुणयुक्तमाननमवधूय कम्प-

यित्वा । स्थिताया इति शेषः । तस्या अधरामृतं पास्यामीति योजना । पथिकाशंसनमेतत् ॥

 
काचित्कांचिद्वक्ति-
Sit
 
-
 

 
मेदिन्यां तव निपतति न पदं बहुवल्लभेति गर्वेण ।
 

आश्लिष्य कैर्न तरुणैस्तुरीव वसनैर्विमुक्कासि ॥ ४४३ ॥

 
मेदिन्यामिति । अहं बहूनां वल्लभेति गर्वेण तव पदं भूमौन निपतति । कैस्तरुणैरा-

लिङ्गथ वस्त्रैस्तुरीव न विमुक्तासि । उपसर्गेण पुनः कदापि न संबन्ध इत्यावेद्यते ।

उत्तरोत्तरनायकवल्लभात्वे पूर्वपूर्वनायकवल्लभात्वाभावस्य हेतुतया तस्य च गुणशून्यत्व-

ज्ञानाधीनतया न तवानेकवल्लभात्वेन गर्वकरणमुचितम्, अपि तु यस्यामेव कलाकला-

पाकृष्टो नायको निमममानसस्तस्या एव गर्वकरणमुचितमिति ध्वन्यते ॥

 
परपुरुषेष्वभिरतिमुत्पादयितुं दूती नायिकां वक्ति-
-
 
मूले निसर्गमधुरं समर्पयन्तो रसं पुरो विरसाः

इक्षव इव परपुरुषा विविधेषु रसेषु विनिधेयाः ॥ ४४४
 
DE
 

 
Sn Gurgeshwari Diginal Foundation